SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mundatsAmatatunmamaMEcontinusandasaddarerantriesmanabadawasamasuates प्रमाण प्रकरणे नमाननिरूपणाम । Han u mananewale वत्वं साध्यमनित्यत्वं व्याप्नोति अनित्येष्वेव क्रियादिज्वभावात् । अथ साध्यव्यापक इत्येवाभिधीयेत ततपूचानित्यत्वसाधने सावयवत्वे कृतकत्वमुपाधिः स्यात् । तस्य साध्यानित्यत्वव्याप्तः। साधनाव्यापक इत्यक्त पुनस्तस्थ सावयवत्वव्यापकत्वादनुपाधित्वं निरूपाधिकसाध्यसम्बन्ध चोभयम् । यथाहुः । कृतकत्वसावयवत्वादिप्रयुक्ता च विनाशितेति । तस्मात् प्रयोजनवदेव विशेषणद्वयोपादानम् । यथाहुः । एकसाध्याविनाभावे मिथः सम्बन्धशून्ययाः । साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥ इति । नमित्यन्तेन सन्दर्भेण । अनित्यत्वसाधने कृतकत्व इति । अनित्यः शब्दः कृतकत्वाद् घटवादित्यत्र साधनाव्यापकत्वाद् घटे सावयवत्वमुपाधिः स्यादित्यर्थः । अनित्यत्वसाधने सावयवत्व इति । क्षित्यादिकमनित्यं सावयवस्वाद घटवादित्यत्र साध्यव्यापकत्वात् कृतकत्वनुपाधिः स्यादित्यर्थः । ननु कृतकत्वसावयवत्वयोरेकस्य सोपाधिकत्वमस्तु तथा च साधनाव्यापकत्वसाध्यव्यापकत्वयोरन्यतरेणैव लक्षणसिद्धौ लाघवादित्याशझ्याह । निरुपाधिकेति । अनित्यत्वसाधने द्वयोरपि दृशक्तिकत्वान्नान्यतरपरित्यागो न्याय्य इति भावः । द्वयोरप्यनित्यतासाधकत्वे वृद्धसम्मतिमाह । यथाहुरिति । प्रकृतमुपसंहरति । तस्मादिति । समपदं तु पक्षेतरत्वनिरासार्थमिति शेषः । उपाधिलक्षणमुद्यनवाचा संवादयति । एकसाध्येठ-No. 3, Vol. XXII. - March, 1900. emes Annati १८५ For Private and Personal Use Only
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy