SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org सटीकता किंकरक्षायाम् । तदपि न । अगृहीतसम्बन्धानां शब्दानुल्ले. खिनः प्रत्ययस्योत्पत्तेः । इतरेषां चेन्द्रियसंयोगानन्तरमविशिष्टविषयापरोक्षानुभवस्य ) दुरपह्नवत्वातू (२) । अन्यथा विकल्पस्यैवानुदयप्रसङ्गात् वाच्यदर्शनेन हि प्रतिसम्बन्धिवाचकस्मृतिरस्ति । यथाहुः ॥ यत् सञ्ज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् । पिण्ड एव हि दृष्टः सन् सञ्ज्ञां स्मारयितुं क्षमः ॥ इति । पिण्डदर्शनस्य चेन्द्रियसन्निकर्षव्यतिरेकेण न व्यवसीयते ऽतः सर्वं प्रत्यक्ष सविकल्पकं विशिष्टार्थग्राहिस्वाल्लैङ्गिकवदिति भावः । 1005 Acharya Shri Kailassagarsuri Gyanmandir नैतद्युक्तमव्युत्पन्नप्रत्यक्षेषु हतोबीधादित्याह । तदपि नेति । व्युत्पन्नप्रत्यक्षेष्वपि कचिद्वाध इत्याह । इतरेषां चेति । अनुभवसिद्धस्यापि तस्यापवे ऽनिष्टमाह । अन्यथेति । कुत इत्याशङ्क्य तस्यैव तत्कारणवाचकस्मृतिबीजो ३/staकत्वादित्याह । वाच्येति । उक्तमर्थ वृद्धसंवादेन स्पष्टीकरोति । यथाहुरिति । तत्र सञ्ज्ञिविकल्पे कारणमिति शेषः । दृष्टः सन्नालेोचितः सन्नित्यर्थः । सञ्ज्ञिनिर्विकल्पकमेव साहचर्यात् संस्कारोद्बोधद्वारा प्रतियोगिसज्जास्मृतिहेतुरित्यर्थः । (१) पोक्षावभासस्य - पा. B. D. पु. (२) अपनेतुमशक्यत्वादित्यर्थः । (३) स्मृतिबीजं संस्कारः । ( ४ ) इन्द्रियकार्यत्वात् । NIT 8 ) तर्हि पिण्डज्ञानं प्रमाणान्तरकार्यत्वात् न प्रत्यक्षमित्याशयेन्द्रियान्वयव्यतिरेकानुविधानादिन्द्रिय कार्यमे For Private and Personal Use Only 10
SR No.020810
Book TitleTarkikraksha
Original Sutra AuthorN/A
AuthorVaradraj Acharya, Vindheshwar Prasad
PublisherVaranasi
Publication Year1903
Total Pages427
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy