SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४४ ] कस्य कर्मणस्तथाविधसंयोगद्वयजनकत्वस्याविरुद्धत्वादेव तन्तुद्वयसंयोगे तन्त्वाकाशसंयोगजनकत्वाकल्पनात् कारणमात्रसंयोगजसंयोगादौ मानाभाव एवेतिध्येयम् । द्वितीयस्त्विति। कारणाकारणविभागजन्यो विभागजविभागस्त्वित्यर्थः। उदाहरति करेत्यादि । करौ कारणं, तरुरकारणं, तयोविभागादित्यर्थः। कायेत्यादि । कायः करकार्य, तरुः कराकाय, तयोविभाग उत्पद्यत इति शेषः ।। २६ ॥ ॥ तर्कामृतम् ।। परत्वापरत्वोत्वोत्पत्तिः कालप्रकरणे उक्ता ॥ २७ ॥ ___॥ विवृतिः ॥ क्रमप्राप्तपरत्वापरत्योत्पत्तिप्रक्रियाया अनभिधाने न्यूनत्वमित्याशङ्कां परिजिहीर्घराह 'परत्वत्यादि ॥१७॥ || तर्कामृतम् ॥ बुद्धिज्ञानं, तद्विविधं स्मरणमनुभवश्च । स्मरणमपि द्विविधं यथार्थमयथार्थञ्च । तद्वति तत्प्रकारकत्वं यथार्थत्वम्, तदभाववति तत्प्रकारकत्वमयथार्थत्वम् । पूर्वानुभवःसंस्कारद्वारा स्मरणं जनयति । तत्र पूर्वानुभवस्य यथार्थत्वायथार्थत्वाभ्यां स्मरणमप्युभयरूपम्भवति ॥ २८ ॥ || विवृतिः ॥ अथात्मविशेषगुणोत्पत्तिप्रक्रियामभिधातुमुपक्रमतेबुद्धिरिति । जानामीत्यनुव्यवसायसाक्षिकज्ञानत्वजातिस्सल्लक्षणमिति बोध्यम्। ज्ञानस्य बुद्धिवृत्तित्वमिति सांख्यमतं निरसितुं विवृणोति ज्ञानमिति । अतएव 'बुद्धिरुपलब्र्धिज्ञानमित्यनान्तरम्' इत्यक्षपादसूत्रम् । बुद्धि बिभजते तद्विविधमिति । बिधाद्वयमाह स्मरणमनुभवश्चेति । तत्र स्मरणत्वं संस्कारमात्रजन्यज्ञानत्वं जातिविशेषो वा। अनुभवत्वमपि स्मृत्यन्य ज्ञानत्वं जातिविशेषो वा। अथ स्मरणं विभजते स्मरणमपीति । अत्रापिना बक्ष्यमाणानुभव विध्यं सूचितम् । विधाद्वयं दर्शयति यथार्थमयथार्थञ्चेति । तत्र यथार्थत्वं लक्षयति तद्वतीत्यादि। सप्तभ्यर्थो विशेष्यत्वं निरूपितत्वसम्बन्धेन प्रकारतायामन्वेति । तत्प्रकारकत्वमिति। तन्निष्ठप्रकारता निरूपकत्वमित्यर्थः । तथाच तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतानिरूपकत्वं यथार्थत्वमित्यर्थः । एतेन रङ्गत्वेन रजतावगाहिनि रजतत्वेन च रङ्गावगाहिनि 'इमे रङ्गरजते' इत्याकारकसमूहालम्वनभूमेऽतिव्याप्तिस्तत्ररङ्गविशेष्यकत्वरङ्गत्वप्रकारत्वयोः रजतविशेष्यकत्वरजतत्वप्रकारकत्वयोः सत्त्वादिति निरस्तं रङ्गत्वप्रकारतायां रङ्गविशेष्यता. For Private And Personal Use Only For Private And Personal Use Only
SR No.020809
Book TitleTarkamrutam
Original Sutra AuthorN/A
AuthorJagdish Tarkalankar, Jivankrishna Tarktirth
PublisherAsiatic Society
Publication Year1974
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy