SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir ॥ तर्कामृतम् ॥ ब्रह्माद्या निखिलाञ्चितास्त्रिदशसन्दोहाः सदाभीष्टदा अज्ञानप्रशमाय यत्र मनसो वृत्ति समस्तां दधुः । श्रीविष्णोश्चरणाम्बुजं भवभयध्वंसैकवीजं परं हृत्पद्म विनिधाय तन्निरुपमं तर्कामृतं तन्यते ॥१॥ - ॥ विवृतिः ॥ श्रीकृष्णचरणाम्भोजमज्ञानध्वान्तनाशनम् । ज्ञानज्योतिःप्रदं सम्यग्विघ्नविध्वंसकारणम् ॥ निधाय मानसे भक्त्याक्षपादप्रतिमं गुरुम् । महामहोपाध्यायं तं नवद्वीपदिवाकरम् ॥ समुज्ज्वलप्रशालोकालोकितक्षितिमण्डलम् । प्रणम्य कामाख्यानाथतर्कवागीशमच्चितम् ।। तर्कामृताख्यो यो ग्रन्थो जगदीशेन निम्मितः । विप्रो जीवनकृष्णस्तं विवृणोति यथामति ।। तत्र तावतर्कामृतारख्य ग्रन्थं चिकीर्षुस्तत्रभवान् जगदीशतर्कालङ्कारो निम्विघ्नपरिसमाप्तये शिष्टाचारानुमितया 'समाप्तिकामो मङ्गलमाचरेत्' इति श्रुत्या बोधितकर्त्तन्यताकमिष्टदेवतानमस्कृतिरूपं मङ्गलं समाचरन् शिष्यशिक्षायै निबध्नाति ब्रह्माद्या इत्यादि। अज्ञानप्रशमायेति। ज्ञानसाध्ये ग्रन्थप्रणयने प्रतिबन्धकं मदीयाज्ञानं विनश्यत्विति तात्पर्य्यम् । यतकिञ्चिन्मानसत्तिधारणस्याज्ञानानिवर्तकत्वादुक्तं समस्तामिति । स्वग्रन्थे प्रेक्षावत्प्रवृत्तयेऽभिधेयं प्रदर्शयति तर्कामृतमिति । नात्र तर्कपदमापत्तिमात्रपरंतन्मात्रस्य प्रदर्शने न्यूनतापत्तेः किन्तु तय॑न्ते प्रतिपाद्यन्ते इति-व्युत्पत्त्या भावादिपरमिति बोध्यम् । ग्रन्थाभिधेययो: ज्ञाप्यज्ञापकभावः सम्बन्धः। प्रयोजनन्तु भावादिपदार्थतत्त्वज्ञानद्वारामोक्ष इत्यवधेयम् । तथा च 'ज्ञाताथं ज्ञातसम्बन्ध श्रोतुं श्रोता प्रवर्तते। शास्त्रादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः' ॥ इति प्रेक्षा- वत्प्रवर्तकं वचनम् ॥१॥ For Private And Personal Use Only For Private And Personal Use Only
SR No.020809
Book TitleTarkamrutam
Original Sutra AuthorN/A
AuthorJagdish Tarkalankar, Jivankrishna Tarktirth
PublisherAsiatic Society
Publication Year1974
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy