SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ७.] भट्टभास्करभाष्योपेता. जिनः । वायुर्वी त्वा मनुर्वा त्वा गन्धर्वास्सप्तविशतिः । ते अग्रे अश्वमायुञ्जन्ते अस्मिञ्जवमादधुः। अपां नपादाशुहेमन् य ऊर्मिः श्वाः । भवथ । वाजिनः । वायुः। वा । त्वा । मनुः । वा । त्वा । गन्धर्वाः। सप्तविशतिरिति सप्त-विशतिः । ते । अz । अश्वम् । आयुञ्जन्। ते । अस्मिन् । जवम् । एति । अदधुः । अपाम् । नपात् । आशुहेमनित्यांशु-हेमन् । यः। ऊर्मिः। __ "प्रष्टिवाहिनं रथं युनक्ति–वायुर्वी त्वेत्यनुष्टुभा ॥ वाशब्दस्समुचये, विकल्पासम्भवात् । प्राणो मनुः । तद्वानित्येके । प्रसिद्धा [सिद्ध एवेत्यन्ये । वायुश्च मनुश्च गन्धर्वाश्च । कति पुनस्ते? पञ्चविंशतिरिति ब्रूमः । यदाहुः-सप्तविंशतिस्त इति । सर्वे सम्भूय वायुमनुभ्यां सह सप्तविंशतिसयास्त इत्यर्थः । ते सर्वेपि अग्रं प्रथममस्मत्तः पूर्वमश्वं व्याप्नुवन्तं आयुञ्जन् अयुञ्जत । ततोहं युनज्मीति । छान्दसे लंङि छान्दस आडागमः । अटि वा वर्णव्यत्ययेन दीर्घत्वम् । किञ्च ते वास्वादयोस्मिंस्त्वयि जवं वेगं चादधुः आदधतु । छान्दसो लिट् । वायुश्च त्वां मनुश्च त्वां गन्धर्वाश्च त्वामिति प्रत्येकं योगसम्बन्धख्यापनाय युष्मच्छब्दावृत्तिः ॥ “पृष्ठमश्वस्य प्रतिमार्टि-अपान्नपादिति ककुदृष्णिहा ॥ द्वितीयस्य द्वादशाक्षरत्वात्, अमिरिति प्रथमपादान्तः । अश्व आम For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy