SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भभास्करभाष्योपेता. 44g ऋषी । सोमो विश्वान्यतविश्वानि । अतसा। वनानि । न । अर्वाक् । इन्द्रम् । आपतितदीप्तिः । पण व्यवहारे स्तुतौ च, पन च इत्यस्य निष्ठायां छान्दस इडभावः । तृपलप्रभर्मा, त्रयाणामुपलानां समाहारस्तुपलं, त्र्युपलमिति वक्तव्ये पूर्वपदस्य सम्प्रसारणे उत्तरपदस्यादिलोपः, 'परादिश्छन्दसि ' इत्युत्तरपदाचुदात्तत्वम् । त्रिभिरुपलैविभिः प्रभा प्रहारोभिषवो यस्य तथोक्तः । हरतेरौणादिको मनिन्, 'हाहोर्भः' इति भत्वम् । धुनिः कम्पनशीलः । धुञ् कम्पने, औणादिको निन्प्रत्ययः । यहा–'धूञ्प्रीञोर्नुक्' इति नुकि धूनयतेरौणादिक इन्प्रत्ययः, धातोश्च ह्रस्वत्वम् । धूनयिताङ्गानां धुनिः । शिमीवान् कर्मवान् मानाभिषवपवनग्रहणादिसन्ततबहुकर्मा । शरुमान् शरणं शरुः हिंसा अभिषवपीडा तहान् । ऋनीषी निस्सारीकृतः । एवं ग्रावप्रहारादिसद्भावेपि यस्सोमोपगतमन्युः आगतदीप्तिरेव भवति, स एवास्माकं विश्वान्यतसा अतसानि अविच्छिन्नानि । अततेरौणादिकोऽसच् । वनानि वननीयानि धनानि । यद्वा-अतसानि शुष्काणि, वनानि सरसानि, तानि विश्वान्यपि सोम एव, सौषधिराजत्वात् सोमस्य । एवं वरणीयवस्तुसाम्यादिना सोमस्स्तुतः ; इदानीमिन्द्रस्तुतिरूपमे तिरनुपमै] वेति दर्शयति-अर्वाक् अर्वाचीनानि प्रतिमानानि इन्द्रं नैव देभुः दनुवन्ति न बाधन्ते । समत्वेन स्पर्शनमेव वस्त्वन्तरिन्द्रस्य बाधः । एवंगुणकाविमौ सोमेन्द्रौ व्यपगतवान्तदोषं* मा कुरुतामिति । 'श्रन्थिअन्थिदम्भिस्वञीनां च ' इति लिटः कित्त्वम् । शरुमानित्यस्य पूर्ववद्रुत्वानुनासिकौ ॥ *ख-न्तरेषं. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy