SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता. 321 रेष्विन्द्र सुहव हवामहेऽ५ होमच सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुण सातये भगं द्यावापृथिवी मरुतस्स्वस्तये । ममर्नु नः परिवम् । हवामहे । अहोमुचमित्य हः-मुचम् । सुकृतमिति सु-कृतम् । दैव्य॑म् । जनम् । अग्निम् । मित्रम् । वरुणम् । सातये । अर्गम् । द्यावापृथिवी इति द्यावा-पृथिवी । मरुतः । स्वस्तयै । ममर्नु । नः। परिज्मेति परि-ज्मा । वस. क्षणस्याचाप्रसङ्गात्, 'ईषदुस्सुषु' इति खलू , कृदुत्तरपदप्रकृतिस्वरत्वम्, लित्स्वरः । हवामहे आह्वयामः पूर्ववत्सम्प्रसारणम् । यहासुहवं सुयुद्धं युद्धे नेतृत्वात्, । 'भावेनुपसर्गस्य ' इति द्वयतेरप्प्रत्यये सम्प्रसारणम्, तेनैव बहुव्रीहौ, 'आद्युदात्तं द्वयच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । अंहोमुचं पापेभ्यो मोचयितारं सुकृतं सुष्टु कर्तारम् । 'सुकर्मपाप' इति करोतेः विप् । दैव्यं दिवि भवम् । 'देवाद्यौ ' इति यञ् । जनमन्यमपि धुलोके जातम् । एकैकत्वेन तमाचष्टे-अग्निं मित्रं वरुणं सातये । 'उतियूति' इत्यादिना सनेः क्तिन्प्रत्ययो निपात्यते । भगं द्यावापृथिवी मरुतश्च, एतानप्याह्वयामः । किमर्थम् ? सातये लाभाय अभिमतानि नो दद्युरिति । किञ्च-स्वस्तये ग्रामस्य चाविनाशार्थम् ॥ अथ तत्रैव याज्या-ममत्तु न इति त्रिष्टुप् ॥ ममत्तु तृप्यतु 2R. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy