SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता. 245 लभत स कृष्ण एकशितिपादभवयो वरुणगृहीतस्याथ्स एतं वारुणं कृष्णमेकशितिपादमालशेत वरुणम् ॥ ७ ॥ एव स्वेन भागधेयेनोप धावति स एवैनै वरुणपाशान्मुञ्चति कृष्ण एकशितिपाद्भवति वारुणो एकशितिपादित्येक-शितिपात् । अभवत् । यः। वरुणगृहीत इति वरुण-गृहीतः । स्यात् । सः । ए॒तम् । वारुणम् । कृष्णम् । एकशितिपादमित्येकशितिपादम् । एति । लभेत । वरुणम् ॥ ७ ॥ एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपोर्त। धावति । सः। एव । एनम् । वरुणपाशादिति वरुण-पाशात् । मुञ्चति । कृष्णः । एकशितिपादित्येक-शितिपात् । भवति । वारुणः । हि । प्रमापितः कृष्ण एकशितिपादभवत् । एकश्शितिः श्वेतः पादो यस्येति त्रिपदो बहुव्रीहिः । यहा-शितिः पादो यस्येति शितिपात् । ‘पादस्य लोपः' इति समासान्तः । एकेन पादेन शितिपात् । तृतीयापूर्वपदप्रकृतिस्वरत्वम् ॥ 'वरुणगृहीतस्स्यादिति ॥ वरुणो महोदर इति व्याधिरित्येके । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy