SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 तैत्तिरीयसंहिता. [का. १. प्र. ८ __ मिषसेनौसि ब्रजक्षितस्थ मुरुअसि । वृषा । असि । ऊर्मिः । वृषसेन इति सचेतने, चुरादिरनुदात्तेत्, 'बहुलमन्यत्रापि ' इति णिलुक् , 'बहुलं छन्दसि' इति शपो लुक् , लसार्वधातुकानुदात्तत्वे धातुस्वरः । याभिर्युष्माभिर्मित्रावरुणौ कर्मस्वभ्यषिञ्चन्देवाः, याभिश्च युष्माभिरिन्द्रमभ्यषिञ्चन् देवाः, अरातींश्चात्यनयन् इन्द्रं सर्वान् शत्रूनतीत्योपरीन्द्रं स्थापितवन्तः; ता यूयं राष्ट्रदास्स्थ राष्ट्रस्य दात्र्यस्थ, अद्भिर्हि राष्ट्रं भवति । ता यूयमस्मै राष्ट्रं दत्त, स्वाहा स्वाहुतमिदमाज्यमस्तु इति होमे । ग्रहणे तु यस्माद्राष्ट्रदास्स्थ, तस्मादमुष्मै राजेन्द्रवर्मणे राष्ट्र दत्त ; ता वो गृह्णामीति ॥ पुन्नदस्य शोणादेर्वा जलं-अपाम्पतिरसीति ॥ अपाम्पतिस्समुद्रः तदीया आप उच्यन्ते ; विकारे प्रकृतिशब्दात् । समुदायशब्दादेकवचनम् । शोणादीनां पुंस्त्वेन अपांपतित्वम् । 'उडिदम् ' इति षष्ठया उदात्तत्वम् ॥ ___ अथ नद्यां पुरुष पशौ वा तिष्ठति प्रतीपमन्य ऊर्मियुद्ध्यति, अन्वीपमन्यः; तयोः प्रतिस्रोता य मिर्भवति, तज्जलं गृह्णातिवृषास्यूमिरिति ॥ वृषा वर्षिता वृष्टिहेतुत्वात् । प्रधाने धान] वा ; सङ्घातरूपत्वात् । उर्मिस्सङ्घातार्था अरणशीला वा ॥ 'अथानुस्रोता य ऊर्मिस्तज्जलं गृह्णाति-वृषसेनोसीति ॥ सेकी सेना यस्य संघातत्वेन महत्त्वात् सेकसामर्थ्याच्च । छान्दसमन्तोदात्तत्वम् । केचित्तु-वृषास्यूमिरित्येतावता उर्मिजलं गृह्णाति, वृषसेनोसीति पल्वल्यमिति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy