SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता. [का. १. प्र.७. पशवोर्तुरानजहुर्यं कामयैतापशुस्स्यादिति परांची तस्येडामुप॑ ह्वयेतापशुरेव भवति यम् ॥ ३ ॥ कामयैत पशुमान्थ्स्यादिति प्रतीची तस्येडामुप॑ ह्वयेत पशुमानेव भवति ब्रह्मवादिनों वदन्ति स त्वा इडामुअजहुः । यम् । कामयैत । अपशुः । स्यात् । इति । परांचीम् । तस्य । इडाम् । उपेति । ह्वयेत। अपशुः । एव । भवति । 'यम् ॥३॥ कामयैत। पशुमानित पशु-मान् । स्यात् । इति । प्रतीचीम् । तस्य॑ । इडाम् । उपेति । ह्वयेत । पशुमानितिं पशु-मान् । एव । भवति । ब्रह्मवादिन इत्यादि । इडायाः प्रतीचीनत्वेन पशव एव देवानवृणत इति वेदितव्यम् । पराचीनत्वेनासुरान् पशवोऽजहुरत्यजन् । 'सिजभ्यस्त' इति जुस् ॥ यमित्यादि । गतम् ॥ 'ब्रह्मवादिन इत्यादि ॥ ब्रह्म वेदः तद्वदितुं शीलं येषामिति 'ब्रह्मणि वदः' इति णिनिः, संहितायां तोरन्त्यलोपश्चान्दसः । *सं. १-७-१.4 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy