SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपेता. 125 नीमदन्त ह्या प्रिया अधूषत । अस्तौषत स्वानवो विप्रा नवष्ठया मती । योजा विन्द्र ते हरी। अक्षन्पितरोमीमदन्त पितरोतीतृपहि । अवेति । प्रियाः । अधूषत । अस्तौषत । स्वभानव इति स्व-भानवः । विप्राः । नविष्ठया। मती । योजा । नु । इन्द्र । ते । हरी इति । अक्षन्। पितरः । अमीमदन्त । पितरः। अतीतृपन्त । षत्वम् । अमीमदन्त अतृप्यन् । मद तृप्तियोगे, चौरादिकः, तिङः परत्वान्न निहन्यते, हियोगाद्वा । किञ्च-प्रियाः तनूः अवाधूषत अकम्पयन् भोजनस्य साद्गुण्यमनुस्मृत्येव । धूञ् कम्पने, सिचि व्यत्ययेन गुणाभावः । 'छन्दस्युभयथा' इति सार्वधातुकत्वेन सिचो ङित्त्वाहा । अपि च-विप्रा मेधाविनः विशेषज्ञाः स्वभानवः स्वायत्तदीप्तयः* अस्तोषत स्तुवन्ति भोजनं, अहो दत्तं मुहुश्श्रद्धया चेति । .नविष्ठया नप्तृतमया । णु स्तवने, तृजन्तात् 'तुश्छन्दसि' इतीष्ठन् प्रत्ययः, 'तुरिष्ठेमेयस्सु' इति तृलोपः । मती मत्या । 'सुपां सुलुक् ' इति पूर्वसवर्णः, 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । 'योजा नु' इत्यादि गतम् ॥ ___ अन्वाहार्यपचनमुपतिष्ठते---अक्षन् पितर इति ॥ अक्षन् भुक्तवन्तः पितरः पित्रादयः अमीमदन्त तृप्ताश्चाभूवन् । अतीतृपन्त * मसुदीप्तयः. 'सं. १-८-५. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy