SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] भट्टभास्करभाष्योपेता. 123 त्वामन्वेतत्तै पितामह प्रपितामह ये च त्वामन्वत्र पितरो यथाभागं मन्दध्व५ सुसन्दशै त्वा वयं मघएतत् । ते। पितामह। प्रपितामहेति प्र-पितामह। ये । च । त्वाम् । अन्विति । अत्रं । पितरः । यथाभागमिति यथा-भागम् । मन्दध्वम् । सुसन्शमिति सु-सन्दशम् । त्वा । वयम् । मघव निदधाति पूर्वस्यां दक्षिणस्यां अपरस्यामिति-एतत्ते ततेत्यादि । एनदन्नं ते तव भवतु हे तत तात । ये च त्वामनुगता आश्रिताः अन्ये, तेषाञ्चैतदन्नं भवतु । एतत्ते अन्नं हे पितामह, ये च त्वामनुगताः तेषां च । पितुः पिता पितामहः । एवमेतत्ते अन्नं हे प्रपितामह, ये चान्ये त्वामनुगताः, तेषाञ्च । पितामहस्य पिता प्रपितामहः । अधुना सर्वेपि सामान्येनोच्यन्ते । अत्र अस्मिन् कर्मणि हे पितरः पातारः पितृप्रभृतयो वा पितृपितामहप्रपितामहाः यथाभागं योयो यस्य भागः तेनतेन । 'यथाऽसादृश्ये' इत्यव्ययीभावः । यूयं मन्दध्वं मोदध्वम् । मदि स्तुतिमोदमदस्वप्नगतिषु ॥ आहवनीयमुपतिष्ठते-सुसन्दशमिति पञ्चपदया ऐन्द्रापया ॥ इन्द्रात्मना स्तूयते । हे मघवन् इन्द्र सुसन्दृशं सुष्वनुग्रहदृष्टया सर्वस्य द्रष्टारम् । यद्वा-शोभना सन्दृष्टिर्यस्य द्रष्टुणां तादृशं त्वां वयं मन्दिषीमहि तर्पयामः । आमन्त्रितस्याविद्यमानवत्वान्निघाताभावः, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy