SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ३.) भभास्करभाष्योपेता. 115 षौ यव्या । हविष्मतो मरुतो वन्दते गीः । यद्गामे यदरण्ये यत्सभायां यदिन्द्रिये । यच्छूद्रे यदर्य एनश्चक्रमा वयम् । यदेकस्याधि वन्दते । गीः । यत् । ग्रामे । यत् । अरण्ये । यत् । सभायाम् । यत् । इन्द्रिये । यत् । शूद्रे । यत् । अयें । एनः । चकम । वयम् । यत् । एकस्य । अधीति । धर्मणि । तस्य । अवयनमित्यन्दसोन्त्यविकारः । सोर्वा डादेशः । वरुणपाशानामवयजनं विनाशहेतुरस्त्विति यावत् । कः पुनरस्य विशेष इति चेदमःहे इन्द्र अस्य तव मीढुषः सेक्तुः सम्बन्धिनीयमिष्टिः मही पृथ्वी यस्माद्यव्या यवमात्रसदृशी अतिस्वल्पेति यावत् । शाखादित्वादिवाथै यः। यहा- इयमेवेष्टिः तव प्रसादान्महती यव्या यावयित्री वरुणपाशानां पृथक्करणसमर्थेति यावत् । छान्दसो यः । अन्वादेशत्वादस्येति निहन्यते । दाश्वानादौ मीट्वानिति निपातितः । किञ्चहविष्मतश्चरुमतो मम गीर्वन्दते स्तौति ॥ ___ *दम्पती याज्यां ब्रूतः-यद्गाम इति । षट्पदा जगतीयम् ॥ ग्रामे जनपदे गूढे प्रदेशे सभायां गृहे इन्द्रिये चक्षुरादिके वागादिके च शूद्रे चतुर्थे । निकृष्टोपलक्षणम् । 'अर्यस्स्वामिवैश्ययोः' इति निपात्यते, निपातनसामर्थ्यादेवाभिमतस्य सिद्धिः । एषु प्रामादिष्वाधारेषु एतेषु वा निमित्तेषु वयं यदेनः पापं चकम बुद्धिपूर्वमबुद्धिपूर्व वा सह कृतवन्तः । साहितिकं दीर्घत्वम् । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy