SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १३.] भभास्करभाष्योपेता. 99 rommmmmmmmmmmmmmmmmmmmmmm PPS स्वा प्र यच्छ दक्षिणादोत सव्यात्। प्रदाता बजी वृषास्तुराषाढ़ष्मी राजा वृत्रहा सोमपावा । अस्मिन् यज्ञे बर्हिष्या निषद्यार्थी भव यजउत । सव्यात् । "प्रदातति प्र-दाता । बजी। वृषभः । तुरापाट् । शुष्मी । राजा । वृत्रहेति वृत्र-हा । सोमपावेति सोम-पावा । अस्मिन्न् । यज्ञे । बर्हिषि । एति । निषद्यति नि-सद्य। इति सम्प्रसारणम् । स त्वमुभी हस्तौ वसुना धनेन पृणस्व पूरय । पृण प्रीणने, तौदादिकः, व्यत्ययेनात्मनेपदम्, ‘हि च' इति निघातप्रतिषेधः । पूरयित्वा चास्मभ्यं प्रयच्छ देहीति यावत् । आ दक्षिणादा च सव्यात्प्रसारिताद्धस्तात् ताभ्यां प्रसारिताभ्यां यावद्गृह्यते तावदेहीति यावत् ॥ "तत्रैव याज्या-प्रदातेति त्रिष्टुप् ॥ प्रदाता प्रकर्षेण दाता वजी वजवान् वृषभः वर्षिताभिमतानां धनानां तुराबाट तूर्णमभिभविता शत्रूणाम् । तुर त्वरासम्भ्रमयोः, भिदादिलक्षणोङ् , 'छन्दसि सहः' इति ण्विः, 'सहेस्साढस्सः' इति षत्वम् । शुष्मी बलवान् राजा दीप्यमानः वृत्रहा वृत्रं हतवान् सोमपावा सोमस्य पाता । 'आतो मनिन् ' इति वनिप् । ईदृशस्त्वमस्मिन् यज्ञे बर्हिषि सीदसि । आगत्य निषद्य आसित्वा, अथ अनन्तरं यजमानाय शं च योश्च भव रोगाणां For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy