SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १३.] भट्टभास्करभाष्योपेता. 95 इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः । पाति दिद्युन्नर्यस्य बाहुवो र्मा ते ॥ ४८॥ मनौ विष्वद्रियऊती । उग्र । समन्यव इति स-मन्यवः । यत् । समरन्तेति सं-अरन्त । सेनाः । पाति । दिद्युत् । नय॑स्य । बाहुवोः । मा । ते ॥४८॥ मनः। विष्वद्रियगिति विष्व-द्रियक् । वीति । चारीत् । त्रिष्टुबेव वा; प्रथमः पादो दशाक्षरः कार्यः । बाह्वोरिति तृतीयपादान्तः ॥ हे इन्द्र उग्र उद्गीर्णायुध ते तव महः महती उती गतिः प्रभावः । 'उतियूति' इति क्तिन उदात्तत्वम् । प्रथमायाः पूर्वसवर्णदीर्घत्वम् । मह इत्यस्यान्तोदात्तत्वं मृग्यम् । यहा-ते तव महः महतः प्रभावस्य 'सावेकाचः' इति षष्ठया उदात्तत्वम् । उत्या प्राप्त्या । तृतीयायाः पूर्वसवर्णः । समन्यवः सामर्षास्सेनाः । सामर्थ्यात्परकीयाः यद्यस्मात् आसमरन्त सर्वास्सम्भूयागताः । 'समो गमृच्छि' इत्यात्मनेपदम्, 'सर्तिशास्त्यतिभ्यश्च' इत्यङ् । तस्य ते नर्यस्य नरीभ्यो हितस्य बाह्वो: दिद्युत् दीप्यमानः शत्रुः पताति पतेत् अग्नौ शलभ इव । लेट्याडागमः । यहा-विद्युत् आयुधविशेषः तव बाबोस्सम्बन्धी इतश्चेतश्च पततु । किञ्च-ते तव मनो विष्वद्रियक् विष्वग्गतं स मा विचारीत् विचलितं मा भूत् अस्मज्जयायैव भवतु 'विप्वग्देवयोश्च' इत्यद्यादेशः । अद्रिसन्ध्योरन्तोदात्तत्वनिपातनं स्वरनिवृत्त्यर्थमित्युक्तम् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy