SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १३. भभास्करभाष्योपेता. 93 ह्यस्या अपरं चन जरसा ॥४७॥ मरते पतिः । नाहमिन्द्राणि रारण सख्युर्वृषाकपेर् ऋते । यस्येद मप्य हविः प्रियं देवेषु गच्छति । हि । अस्याः । अपरम् । चन । जरसा ॥ ४७ ॥ मरते । पतिः । 'न । अहम् । इन्द्राणि । रारण । सख्युः । वृषाकरिति वृषा-कपेः । ऋते । यस्य॑ । इदम् । अप्यम् । हविः। प्रियम् । देवेषु । गच्छति । चनेति समुच्चये । न ह्यस्याः पतिः जरसा वयोहान्या मरते म्रियते । व्यत्ययेन शप् , 'हि च' इति निघातप्रतिषेधः । सैव महाभागा इन्द्राणी अस्मत्सेनामुत्साहवतीं करोत्वित्यर्थः ॥ 'तत्रैव याज्या-नाहमित्यनुष्टुप् ॥ हे इन्द्राणि तव सख्युः वृषाकपेः इन्द्रादृते वा मम सख्युः वृषाकपेः आदित्याद्विष्णोर्वा ऋते कञ्चिदपि नाहं रारण न रणामि न कीर्तयामि ततोन्यं न नौमीत्यर्थः । ततोन्येन वा केन चिदपि न रमे । छान्दसो लिट् । तुजादित्वादभ्यासस्य दीर्घत्वम्, ‘णलुत्तमो वा' इति वृद्धयभावः, रमतेरन्त्यविकारश्चान्दसः । आत्मानं विशिनष्टि-यस्य हविः मम सम्बन्धि हविः अप्यमद्भयो हितं, वृष्टिहेतुत्वात् । अप्सु वा भवं सोमपुरोडाशादिकं, तत्कारणत्वात् । छान्दसो यत् । प्रियमिष्टं भूत्वा देवेषु गच्छति सर्वान् देवान् प्राप्नोति । एवं सर्व देवप्रीणनसमर्थोपि अहं वृषाकपेः ऋते न कञ्चिद्वारण न वा केन चिद्रणे, सखित्वात् । सोहमिदानी अनेन हविषाराधयामि, अतोस्मत्सेनां संशितां कुर्विति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy