SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. २६.] भभास्करभाष्योपेता 71 सुशासि सुप्रतिष्ठानो बृहदुक्षे नम एष ते योनिर्विश्वेभ्यस्त्वा देवे भ्यः॥ २७॥ 'सुशर्मेति सु-शर्मा । असि । सुप्रतिष्ठान इति सु-प्रतिष्ठानः । बृहत् । उक्षे। नमः। एषः। ते। योनिः । विश्वेभ्यः । त्वा । देवेभ्यः ॥२७॥ _सुशर्मा द्वादश ॥ २६ ॥ 'सवितृपात्रेण वैश्वदेवं कलशाद्गृह्णाति-सुशर्मेति यजुषा ॥ वैश्वदेवो गण उच्यते । सुशर्मा सुसुखः शोभनग्रहो वा त्वमास । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । सुप्रतिष्ठानः शोभनं प्रतिष्ठान प्रतिष्ठा यज्ञाख्या यस्य त्वम् । यद्वा-सुष्टु प्रतिष्ठन्ति सर्वे यागाभिनिवृत्तिद्वारेणेति सुप्रतिष्ठानः । 'मन्क्तिन्व्याख्यान' इत्यादिना उत्तरपदान्तोदात्तत्वमकारकादावपि भविष्यति । तस्मै तुभ्यं उक्षे सेक्ते वृष्टिमुत्पादयित्रे । 'सावेकाचः' इति चतुर्थ्या उदात्तत्वम् । इदं बृहन्नमः । 'ननभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । अन्नं सोमाख्यं गृह्यते त्वदर्थ गृह्णीमः । यद्वा-सोम एवोच्यते, हे सोम सुशासीत्यादि समानम् । तादृशस्त्वं बृहन्नमः प्रभूतमन्नं अदनीयमस्मै उक्षे वैश्वदेवाय गणाय गृह्यस इति ॥ एष ते योनिः इत्यादि व्याख्यातप्रायम् । 'वैश्वदेव्यो वै प्रजा वैश्वदेवः कलशः '* इत्यादि ब्राह्मणम् ॥ इति चतुर्थे षड्डिशः. __ *सं. ६-५-७. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy