________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १३.]
भट्टभास्करभाष्योपेता
स्य॒ग्नये त्वा वैश्वानराय ध्रुवोसि
ध्रुवक्षितिध्रुवाणान्ध्रुवतमोच्युतानाउपयामगृहीत इत्युपयाम-गृहीतः । असि । अग्नये । त्वा । वैश्वानराय । ध्रुवः । असि । ध्रुवक्षितिरिति ध्रुव-क्षितिः । ध्रुवाणाम् । ध्रुवतम इति ध्रुव-तमः । अच्युतानाम् । अच्युतक्षितमर्थः । कीदृशं तत्पात्रमित्यत आह-आसन् आस्ये । द्वितीयार्थे सप्तमी, तस्याश्च लुक् । अग्निमास्यं कृतवन्त इति यावत् । ‘पदन्' इत्यादिना आस्यशब्दस्यासन्नादेशः । यद्वानिमित्तसप्तम्येषा, आस्यनिमित्तं आस्यत्वाय अग्निरस्माकमास्यमिव भूयादिति । अग्निना ह्यास्येन देवा आहुतीः पिबन्ति, अग्निमुखत्वात्तेषाम् ॥ इमामनुद्रुत्य उपयामगृहीतोस्यग्नये त्वा वैश्वानरायेति गृह्णाति ॥
अधिवदते--ध्रुवोसीति ॥ ध्रुवस्त्वमसि, यो यज्ञस्यायुष्ट्वात् ग्रहाणामुत्तमस्स त्वमसि । 'आयुर्वा एतद्यज्ञस्य यद्भुवः'* इत्यादि ब्राह्मणम् । यद्वा-पृथिव्या धृतिहेतुत्वादस्य ध्रुवत्वं, ध्रुवं करोतीति ध्रुवः । 'असुरा वा उत्तरतः पृथिवीं पर्याचिकोर्षन्' * इत्यादि ब्राह्मणम् । ध्रुवक्षितिध्रुवनिवासः निश्चलावस्थानः यावद्वैश्वदेव्या ऋचश्शंसनं तावदवस्थानात् ; यथोक्तं' वैश्वदेव्यामृचि शस्यमानायामवनयति '* इति । ध्रुवाणामादि
*सं. ६-५-२.
For Private And Personal