________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १२.]
भभास्करभाष्योपेता
39
द्वय॒स्तस्मै त्वा विष्णवे वैष ते
योनिरिन्द्रीय त्वोक्थायुर्वे ॥ १३॥ बृहत् । वयः । तस्मै । त्वा । विष्णवे । त्वा । 'एषः।ते। योनिः । इन्द्राय । त्वा । उक्थायुव इत्युक्थ-युवै ॥ १३ ॥
उपयामगृहीतो द्वाविशतिः ॥ १२ ॥ अन्नवते । उक्थायुवे उक्थं शस्त्रं कामयमानाय । 'क्याच्छन्दास' इत्युप्रत्ययः, 'न च्छन्दस्यपुत्रस्य' इतीत्वाभावः । 'जसादिषु वा वचनम् ' इति धेर्डिति' इति गुणाभावः । है इन्द्र तव बृहत् प्रभूतं यद्वयः अन्नं सोमलक्षणं गृह्यमाणं तस्मै तदर्थं तत्पानार्थं त्वां प्रार्थयामह इति शेषः । विष्णवे व्यापकाय तस्मै वयसे त्वां प्रार्थयामह इति । यद्वा-हे सोम विष्णवे भगवते च त्वां गृह्णामीत्येव शेषः । अत्र विष्णुग्रहणकाल एव देवता । यागकाले तु मित्रावरुणाविन्द्राग्नी च । विष्णुर्हि वृत्रवधे साहाय्यकमिन्द्रस्याचरत् । 'यदेव विष्णुरन्वतिष्ठत जहीति तस्माद्विष्णुमन्वाभजति'* इति ब्राह्मणम् । इन्द्रस्य सखा विष्णुः तस्मै तदर्थं तत्प्रीत्यर्थ इन्द्राय त्वां गृह्णामीति ॥
" एष ते योनिरिन्द्राय त्वोक्थायुवे' इति सादयति । 'इन्द्रो वृत्राय वज्रमुदयच्छत् '* इत्यादि ब्राह्मणम् । 'चक्षुर्वा एतद्यज्ञस्य यदुक्थ्यः '* इत्यादि च ॥
इति चतुर्थे द्वादशः.
*सं. ६-५-१.
For Private And Personal