________________
Shri Mahavir Jain Aradhana Kendra
346
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीय संहिता
मिरे । अ॒मुच॒ प्र भ॑रेमा मनीषामो॑षिष्ठ॒दाव्न्ने॑ सुम॒तिं गृ॑णा॒नाः ।
[का. १. प्र. ६.
व॒शम् । इ॒व॒ । येमिरे । 'अहोमुच॒ इत्य'हःमुर्चे । प्रेति॑ भ॒रे । मनीषाम् । ओषिष्ठदावन्न इत्यषिष्ठ – दावून्ने॑ । सुम॒तिमिति॑ सुम॒तिम् । गृ॒णा
-
ब्रह्माणः ब्रह्मादयः अध्वर्यवोपि गृह्यन्ते । ते त्वामुद्येमिरे उद्यच्छन्ते उत्थापयन्ति वर्धयन्तीत्यर्थः । छान्दसो लिट् । कमिव ? वंशमिव । यथोत्तमसम्बन्धादिभिस्सत्पुरुषा वंशं स्वकुलमुत्कर्षं नयन्ति । यद्वा-वंशं ग्रामं यथोदकादिभिश्शनैर्वर्धयन्ति तद्वत्स त्वमस्मम्यमन्नं प्रयच्छेति । केचित् — अत्रोभयत्रार्कशब्दोन्नवचनः । । अर्किणः अन्नवन्तः अर्कैर्हविर्लक्षणैरर्कमर्थ्यं पूज्यं त्वामर्चयन्ति यजन्ते । शेषं समानमिति ॥
For Private And Personal
" इन्द्रायां होमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पाप्मना गृहीतस्स्यात् '8 इत्यस्य पुरोनुवाक्या - अहोमुच इति त्रिष्टुप् ॥ अंहसः पापाद्विमोक्त्रे, ओषिष्ठदाने दावेनोषिष्ठः दग्धृतमः आदित्यः तस्मै उदकस्य दात्रे, वर्षार्थं वा तस्य दापयित्रे; यथा— 'आदित्याज्जायते वृष्टिः ' इति । उष दाहे, तृजन्तात् 'तुश्छन्दसि' इतीष्ठन्प्रत्ययः, 'तुरिष्ठेमेयस्तु' इति तृशब्दस्य लोपः, ददतिः ' आतो मनिन् ' इति वनिष्प्रत्ययः । हे इन्द्र ईदृशाय तुभ्यं +-- वंशग्रामं शत्रुमं [सद्रुमं ? ]. अस्यां पूर्वस्यां च ऋच्यर्कशब्दोन्नवचन इत्यर्थः. Sसं. २-२-७.
* तं गायन्ति.
[] मनुस्मृ. ३-७६.