________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ६.]
भट्टभास्करभाष्यापेता
289
मा छिसि यत्ते तपस्तस्मै ते मा
वृक्षि सुभूरसि श्रेष्टौ रश्मीनामा इति सं-दृशः। ते । मा । छिसि । यत् । ते । तपः । तस्मै । ते । मा । एति । वृक्षि । सुभूरिति सु-भूः । असि । श्रेष्ठः । रश्मीनाम् । आयुर्धा
घस' इति च्लेलृक् । स्वर्गे भोक्तव्यानि भुक्ता पश्चात्सुवः सुष्टु अरणीयं आदित्यान्तरपुरुषं मुक्तिस्थानमगन्म गमिष्यामः गम्यास्म वा । स एव लुङ् । पूर्वाभिधानेन पूर्वस्मादस्याभ्यर्हितत्वं द्योतयति । तदर्थमहं तव सन्दृशः सन्दर्शनात् अनुष्यानलक्षणात् मा छित्सि आछेद्यो मा भूवम् । आत्माभिप्रायमेकवचनम् । आत्मनोऽच्छेदनस्य सर्वार्थसाधनत्वात् । किञ्च-यते त्वदर्थं तपः कर्म यागादि तस्मै तदर्थं ते तव प्रसादात् तत एव वा सन्दशः मा वृक्षि मा विवो भूयासम् । वृजी वर्जने । यद्वा-व्रश्चनीयो मा भूवं, त्वत्परिचरणव्यापारो यथा मा विच्छेदि तथानुध्यातुमर्हसीति ॥
आदित्यमुपतिष्ठते-सुभूरिति ॥ सुष्टु भवति उदेतीति सुभूः शोभनभवनोसि सर्वबोधकामाभिमतत्वात् । सुष्टु भावयतीति वा सुभूः । 'बहुलं संज्ञाछन्दसोः' इति णिलुक् , कदुत्तरपदप्रकृतिस्वरत्वम्, बहुव्रीहित्वेन ‘नसुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । ईदृशोसि हे भगवन्निति । किञ्च-श्रेष्ठः प्रशस्यतरः श्रेष्ठो रश्मीनां रश्मिमतामग्निचन्द्रतारादीनां मध्ये, तेषामपि वा, प्रशस्यतमः । ' नामन्यतरस्याम्' इति नाम उदात्तत्वम् । आयुर्धाः आयुषो धाता
37 .
For Private And Personal