________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपेता
249
N
5
वमुत्पूतशुष्मर सत्यौजास्सहोसि सहमानमसि सहस्वारातीस्सह
स्वारातीयतस्सहस्व पृतनास्सहस्व मित्युत्पूत-शुष्मम् । सत्यौजा इति सत्य-ओजाः।
सहः। असि।सहमानम्। असि।सहस्व।अरातीः। सहस्व । अरातीयतः । सहस्व । पृतनाः। सहस्व । पृतन्यतः। सहस्रवीर्यमिति सहस्र-विर्यम्। असि। ___5-6सहोसीत्यादिके त्रिपदे गायत्र्यौ । सहस्वारातीयत इति तृतीयः पादः । सहस्त्रवीर्यमसीत्यपरस्याः तृतीयः पादः । तत्र पूर्वा निरवसाना, अपरा सावसाना एतन्यत इति ॥ सहोसि अभिभवनमसि शत्रूणाम् । सहमानमसि सदा शत्रूनभिभूय वर्तमानमसि । अदुपदेशालसार्वधातुकानुदात्तत्वे धातुस्वरः । तादृक्तुं सहवारातीः अस्मदमित्रानभिभव ये धनानां दातारो न भवन्ति । रातेः कर्तरि क्तिन्, नञ्समासेऽ व्ययपूर्वपदप्रकृतिस्वरत्वम् । अरातीयतश्च सहख येस्माकमरातिमात्मानमिच्छन्ति अस्मान्वारातिभूतानात्मन इच्छन्ति तानपि सर्वानभिभव बलात्कृत्य नाशय । प्रथमे पक्षे 'छन्दसि परेच्छाथामपि' इति क्यच् , सर्वत्र 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । आख्यातस्य पादादित्वान्निघाताभावः, समानवाक्ये पदात्परत्वाभावाहा । रातिः दाता । सहख एतनाः अस्मद्विरोधिनः सर्वान् सङ्गामानभिभव । पृतन्यतस्सङ्गामं कर्तुमिच्छतश्च सर्वानभिभव । क्यचि ‘कव्यध्वरप्टतनस्य ' इति लोपः, पूर्ववद्विभक्तयुदात्तत्वम् । युयुत्सवस्सेनाः एतनाः । किं बहुना-सहस्त्रवीर्यं बहुप्रकारशक्तिकमासे, अतस्संस्कर्तुमर्हसीति ॥
32
For Private And Personal