________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
244
तैत्तिरीयसंहिता
का. १. प्र. ५.
मृतस्य॒ पत्नीमवसे हुवेम । तुविक्षत्रामजरेन्तीमुरूची५ सुशर्माणमदिति५ सुप्रीतिम् । सुत्राणिं
पृथिवीं द्यामनेहस सुशर्माणमदिसु-व्रतानाम् । ऋतस्य॑ । पत्नीम् । अव॑से । हुवेम। तुविक्षत्रामिति तुवि-क्षत्राम् । अजरन्तीम् । उरूचीम् । सुशर्माणमिति सु-शर्माणम् । अदितिम्। सुप्रीतिमिति सु-प्रणीतिम् । "सुत्राणिमिति सु-त्रामाणम् । पृथिवीम् । द्याम् । अनेहसम् ।
'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । ऋतस्य सत्यस्य यज्ञस्य वा पत्नी पालयित्री तुविक्षत्रां बहुला बहुधनां वा । त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम् । अजरन्तीमविनाशां उरूचीमुरु महतोञ्चती, बहुप्रकारगतिं वा । 'चौ' इति पूर्वपदस्य दीर्घत्वं, उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । सुशर्माणं सुसुखाम् । ' सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । अदितिमखण्डनीयां सुप्रणीतिं सुखेन शर्मणां प्रणेत्रीम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । तत्र च 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । ईदृशी महीं देवीमवसे रक्षणाय तस्यास्तर्पणाय वा हुवेम सुष्टु आह्वयामः । व्यत्ययेन शः । पूर्ववत्सम्प्रसारणम्, 'सुञः' इति सोस्संहितायां षत्वम् । उ इति पादपूरणे । 'अन्येषामपि दृश्यते' इति तस्य संहितायां दीर्घत्वम् ॥
1"पुनरपि तत्रैव याज्याविकल्पः-सुत्रामाणमिति त्रिष्टुप् ॥
For Private And Personal