________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
240
तैत्तिरीयसंहिता
[का... प्र.५.
www
देधिकाशव॑सा पञ्च कृष्टीस्सूर्य इव ज्योतिषापस्ततान । सहस्रसा
शतसा वाज्या पृणक्तु मध्वा दधिका इति दधि-काः । शव॑सा । पञ्च । कृष्टीः। सूर्यः । इव । ज्योतिषा । अपः। ततान । सहस्रसा इति सहस्र-साः । शतसा इति शत-साः। वाजी । अर्वां । पृणक्तु । मध्वा । समिति ।
तीति 'जनसनखन' इति विट् , पूर्ववदात्वम् । ईदृशोग्निः पञ्च कृष्टीमनुष्यान् चतुरो वर्णान् निषादपञ्चमान् शवसा आततान अन्नवत्त्वेन बलवत्त्वेन वा सुखवतीः करोति । छान्दसो लिट् । किञ्च-सूर्य इव ज्योतिषा दीप्तया अपः कर्माणि प्रजानामाततान व्यक्तीचकार । अप एव वा ज्योतिषा दीप्तया ततान । 'उडिदम्' इत्यद्भयो विभक्तिरुदात्ता । किञ्च-सहस्त्रसाश्शतसाश्च बहुतरस्य बहुतमस्य प्रधानस्य संविभक्ता दाता वा भक्तेभ्य- . स्सहस्रं शतं वा सनोति ददातीति । तेनैव विट् , तेनैव चात्वम् । वाजी वेगवान् अन्नवान्वा । अर्वा अरणशीलः । अर्तेः 'अन्येभ्योपि दृश्यते' इति वनिप् । एवं महाभागोग्निः इमा इमान्यस्मदीयानि वचांसि मध्वा मधुसदृशेन शवसा रसेम सम्प्टणक्तु संसृजतु । ततो मधुराणि शवसा सुखानि स्वयमेव श्रोष्यतीति भावः । अस्माकं श्रोतव्यानि वचनानि श्रुत्वा वचनार्थान् ‘करोतु । अयञ्चाभिशंसनादस्मान्मुञ्चत्वित्याशास्महे ।।
For Private And Personal