________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.अनु. ११.]
भभास्करभाष्योपैता
231
म् । अजस्रं धर्ममीमहे । वैश्वानरस्य दरसनाभ्यो बृहदारणादेक
स्स्वपस्यया कविः । उभा पितरां ईमहे। वैश्वानरस्य । दरसनाभ्यः । बृहत् । अरिणात् । एकः । स्वपस्य॑येति सु-अपस्य॑या। कविः। उभा । पितरा । महयन्न् । अजायत । अग्निः । पातारमीमहे याचामहे । किं ? अजस्त्रमविच्छिन्नं धर्म यज्ञ, तेन अविच्छिन्नास्स्यामेति । तेन नास्मिन्मजाते विद्विषाणौ इति ।
3" वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते'* इत्यस्य पुरोनुवाक्यावैश्वानरस्य दंसनाभ्य इति जगती ॥ बृहदिति प्रथमपादान्तः । तेन अरिणादिति पादादित्वान्न निहन्यते । वैश्वानरस्य दंसनाभ्यः . कर्मभ्यः बृहन्महत् एकः कविर्मेधावी किमरिणादधिगच्छति ? किमिति सामर्थ्याल्लभ्यते, इतोन्यन्महदस्तीति कविर्मेधावी कश्चिदवबुध्यते किं ? न कश्चिदित्यर्थः । यो मेधावी न भवति स कामं मिथ्यावबुध्यतां, मेधावी नैव बोडुमर्हतीति । री गतिरेषणयोः ऊयादिकः, छान्दसो लुङ्, 'प्वादीनां द्वस्वः' इति हस्वत्वम् । कीदृशं महत्त्वमित्याह-स्वपस्यया शोभनकर्मतया महदाभ्योन्यन्नास्त्येवेत्यर्थः । वैश्वानरस्य कर्मसदृशमन्यच्छोभनत्वेन महत्कर्म कश्चिदपि मेधावी जनो न जानातीत्युक्तं भवति । अप इति कर्मनाम, शोभनकर्मः स्वपः, तस्य भावस्स्वपस्यम् । छान्दसो यत् , 'सुपां सुलुक्' इति तृतीयाया यादेशः । तर्हि तेषामस्य कर्मणां मध्ये शोभनमेकं कर्मोदाहियतामित्याह-अयं खल्वनिः
* सं. २-२-५
For Private And Personal