SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ९.] www.kobatirth.org भट्टभास्करभाष्योपेता Acharya Shri Kailashsagarsuri Gyanmandir प्र॒जन॑ने प्र॒जन॑न॒ हि वा अग्निरथौष॑धीरन्त॑गता दहति॒ तास्ततो भूय॑ 207 ए॒व । तत् । रेत॑ः । सि॒ञ्च॒ति॒ । प्र॒जन॑न॒ इति॑ प्रजन॑ने । प्र॒जन॑न॒मति॑ प्र॒ जन॑नम् । ह । वै । अ॒ग्निः । अथ॑ । ओष॑धीः । अन्त॑ता॒ इत्यन्त॑ I For Private And Personal योज्यमनित्राख्यं हविर्जुहुयादिति । यदेव किश्च यत्किञ्चिदपि पयो वा दधि वा यवागूं वा जुहोति द्रव्यं तत्तस्यैव यजमानस्य स्वमविनष्टमेव तिष्ठति, तं च न मुञ्चति । ननु दुग्धमविनष्टं तिष्ठतीत्यसमीचीनम् । तत्राह - रेत इत्यादि । सदृशप्रधानो निर्देश: । यथा प्रजनने योनौ रेतस्सिक्तमविनष्टं तिष्ठति तत्सदृशमिदमिति जानीयादित्यर्थः । प्रजायन्ते प्रजा अस्मिन्निति प्रजननम् । ' करणाधिकरणयोश्च' इत्यधिकरणे ल्युट् । अथाने : प्रजननत्वं समर्थयते— प्रजननं हीति । ताद्धर्म्यात्ताच्छब्द्यम् । प्रजननसदृशोयमनिरिति । नन्वग्निर्नाम सर्वं दहति, तत्कीदृशमस्य प्रजननसामर्थ्यमिति पर्यनुयोगावसरे प्रजननसामर्थ्यं दर्शयितुमाह — अथौषधीरन्तगता दहतीति । अथेति प्रस्तावे । अन्तं समीपं गता अन्तगताः । द्वितीयाश्रित' इति समासः, द्वितीयापूर्वपदप्रकृतिस्वरत्वम् । अयमग्निरेव समीपे निपतिता ओषधीर्दहति, ता यदृच्छानिपतिताः अमन्त्रहुता अपि ततः पूर्वं दग्ध* स्वरूपेभ्यो भूयसीः भूयस्यः बहुतराः प्रजायन्ते । यदैवमिदं पश्यामः, तदा किं पुनर्मन्त्रहुता इति । ' वा छन्दसि' इति 6 *म - अदग्ध.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy