SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 184 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir तैत्तिरीयसंहिता ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औशि॒ जम् । कदा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ [का. १. प्र. ५० im स्वर॑णम् । कृ॒णुहि । ब्र॒ह्म॒ण॒ः । प॒ते॒ । क॒क्षीव॑न्त॒मिति॑ क॒क्षी - व॒न्त॒म् । यः । औशि॒जम् । "कदा । च॒न । स्त॒रीः । अ॒सि॒ । न । इन्द्र । श्वसि । - सोतारं सोमानामभिषेोतारं मां कृणुहि । ' अन्येभ्योपि दृश्यते ' इति मनिन् । उच्चादित्वादन्तोदात्तत्वम् । औणादिको वा मनिन्प्रत्ययः । अन्य आहुः सोमानामिति वक्तव्ये छान्दसं ह्रस्वत्वम् । सोमानां सप्तविधानां सम्बन्धिनं मां कुर्विति । तत्राप्यन्तोदात्तत्वं मृग्यम्, सोमशब्दस्याद्युदात्तत्वात् स्वरणं शब्दितं सोमत्वेन प्रकाशितम् । स्वृ शब्दोपतापयोः कर्मणि ल्युट् । ईदृशं च मां कुरु । हे ब्रह्मणः परिवृढस्यान्नस्य वा पते स्वामिन् । ' षष्ठ्याः पतिपुत्र' इति सत्वम् । 'सुबामन्त्रिते ' इति पराङ्गवद्भावात् षष्ट्या - मन्त्रितसमुदायो निहन्यते । कक्षीवन्तं ताडयताच्छन्द्यम् । कक्षीवान्नाम ऋषिः तमिव य औशिनम् । स्वार्थिकोण वचनव्यत्ययः । यद्वा-कक्षीवन्तं हस्त्यादिकक्ष्यावन्तं ईश्वरं मा कुरु । ' आसन्दीवदष्टीवत् ' इत्यादिना निपात्यते । य औशिज ईश्वर औशिजो भवति तम्मा कुरु । उशिक् कान्तः सर्वलोकप्रियः स औशिनः । स्वार्थिकों ॥ For Private And Personal - "रात्रिमुपतिष्ठते कदा चनेति पथ्याबृहत्या ॥ 'तृतीयद्वादशाक्षरः पथ्या '* इति । व्याख्याता चेयमादित्यग्रहे । इन्द्रा * 'पथ्या पूर्वश्चेत्तृतीयः' (पिं -३ - २७) इत्येव पिङ्गलसूत्रं दृश्यते. † सं. १-४-२२'
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy