________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
166
तैत्तिरीयसंहिता
[का. १. प्र. ५.
प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः । यमनवानो भृगवो विरुरुचुर्वनेषु चित्रं विभुवं विशे
विशे । उभा वामिन्द्राग्नी आहुवधायि । धातृभिरिति धातृ-भिः। होता । यजिष्ठः। अध्वरषु । ईड्यः । यम् । अनवानः । भृगवः । विरुरुचुरिति वि-रुरुचुः । वनेषु । चित्रम् । विभुवमिति वि-भुवम् । विशेविश इति विशेविशे। उभा । वाम् । इन्द्रामी इतीन्द्र-अग्नी ।
मत्वर्थीयो वनिप् । यहा-अनवानो भृगुविशेषः । यथाहुः-'भार्ग: वच्यावनामवानौर्वनामदनच' इति । व्यत्ययेनैकवचनम् । विरुरुचुः वनेषु आश्रमेषु । किमर्थ? विशेविशे मनुष्यायमनुष्याय सर्वो मनुष्योभ्युदयेन युज्यतेति । यहा-विभक्तिव्यत्ययः; विशिविशि व्याप्तवन्तमिति । 'सावेकाचः' इति विश इति चतुर्थ्या उदात्तत्वम् । अयमेवं महानुभावो अस्मान्मृडयत्विति शेषः ॥
"उभा वामिति पञ्चमी-प्रथमे प्रश्ने *पठिता ब्याख्याता च ।। हे इन्द्राग्नी उभौ युवां, द्वितीयाद्विवचनम् । आहुवे आह्वयामि । किमर्थं ? आहुवध्यै आभिमुख्येन होतुं उपस्थानेनाराधयितुमित्यर्थः । इह जुहोतिरस्तुतिकर्मा । किञ्च-राधसः रायो धनं हविर्लक्षणं
* सं. १-१-१४-1.
For Private And Personal