SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 162 तैत्तिरीयसंहिता [का. १. प्र. ५. समाभरन् । मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञ समिमं दधातु। बृहस्पतिस्तनुतामिमं नो विश्वे देवा अन्विति । ध्वसे । आदित्याः । विश्व । तत् । देवाः । वसवः। च । समान्निति सं-आभैरन्न्। . 'मनः । ज्योतिः । जुषताम् । आय॑म् । विच्छि मिति वि-छिन्नम् । यज्ञम् । समिति । इमम् । दधातु । बृहस्पतिः । तनुताम् । इमम् । यत्तेजः पृथिवीमनुध्वसे ध्वस्तं पृथिवीमनुप्रविश्य वा नष्टं बभूव तदादित्या विश्वे देवा वसवश्च समाभरन् समाभरन्तु । 'हृग्रहोः' इति भत्वम् ॥ 'अग्निहोत्रमन्त्रावुपस्थानार्थी-तत्र प्रथमा मन इति विराट् ॥ हे अग्ने तव ज्योतिः कीदृशं मननीयम् । यद्वा-मनश्शेषमुद्रासितेन पीडितं यन्मननीयमेवासीत् नान्यत्वे[त्र]विद्यते तदिदमाज्यं जुषतां सेवतां अनेन कर्मणा पूर्ववत्समृद्धमस्तु । यहा--मनस्सदा मननीयं मनोहरं अग्न्याख्यं ज्योतिः उवासनापराधं चेतस्यकृत्वा जुषतामाज्यमिति । ततो विच्छिन्नमुद्वासने तव यज्ञमिमं सन्दधातु । बृहस्पतिश्च नः अस्माकमिमं यज्ञं तनुतां विश्वे देवाश्च इहास्मिन्कर्मणि मादयन्तां मोद(य)न्ताम् । मद तृप्तियोगे चुरादिः । बृहस्पतिशब्दश्च पारस्करादिः, वनस्पत्यादिश्च । तेन सुडागमः, पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं च ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy