________________
Shri Mahavir Jain Aradhana Kendra
150
www.kobatirth.org
"तैत्तिरीयसंहिता
Acharya Shri Kailashsagarsuri Gyanmandir
[का. १. प्र. ५.
स्य वह॒ द्युभिः । अ॒स्य प्रा॒णाव॑पान॒त्य॑न्तश्च॑रति रोच॒ना । व्य॑ख्यन्महि॒षस्सुव॑ः । यत्त्वा॑ ॥ १० ॥ क्रुद्धः
'अ॒स्य । प्रा॒णादिति॑ि प्र - अ॒नात् । अ॒पा॒न॒तीत्य॑पअनती । अन्तः । च॒र॒ति॒ । रोच॒ना । वीति॑ ।
1
अथ ब्रूमः — एवं महातेजाः पतङ्गः अस्य प्रतिवह प्रतिरूपतया वर्तस्व द्युभिः तेजोभिः । अन्वादेशत्वादस्येति सर्वानुदात्तः ॥
For Private And Personal
'आहवनीये तिस्त्रोनुवर्तयति । तत्र प्रथमा - अस्येति गायत्री ॥ अपानतीति प्रथमपादान्तः । अस्याग्नेः रोचना दीप्तिः रोचनशीला । 'अनुदात्तेतश्च' इति युच् । अन्तश्शरीरेषु चरति । किं कुर्वती प्राणात् प्राणनव्यापारात् अनन्तरमपानती अपाननव्यापारं कुर्वती । जीवानां ऊर्ध्वगमनं प्राणनं अधोगमनमपाननम् । जीवश्श्वासवायुः । किञ्च –– महिषः महति शरीरे सीदति । 'सदिरप्रतेः ' इति षत्वम् । अन्त्यविकारश्छान्दसः । यद्वा — महतेष्टिषचि लिङ्गव्यत्ययः । महनीया सुवः शोभना रोचना व्यख्यत् विचष्टे प्रकाशते जीवानामन्तः । छान्दसो लुङ् । ' अस्यतिवक्ति' इत्यादिनाऽङ् । 'उदात्तस्वरितयो:' इति संहितायामडागमः स्वर्यते । अन्य आहुः - अस्याग्नेः सुवः आदित्यात्मिका रोचना दीप्तिः प्राणाहृदयात् अपानती अस्तं गच्छन्ती अन्तः द्यावापृथिव्योर्मध्ये चरति । महत्यन्तरिक्षे सीदति । व्यख्यत् प्रकाशयति च द्यावाष्टथिव्यौ । एवं महानुभावं त्वामादधामीति ॥