________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
भनु...]
भभास्करभाष्योपेता
129
अथ पञ्चमः प्रपाठकः. अथ अतः परं पुनराधेयब्राह्मणं समन्त्रकं चत्वारोऽनुवाकाः । तत्र केवलानेयतामस्य प्रतिपादयिष्यन्तदर्थमर्थवादान् प्रस्तौतिदेवासुरा इत्यादि ॥ 'कृत्तिकास्वग्निमा दधीत '* इत्याद्याधानकाण्डं भविष्यति; तदेतस्मादनुवाकादधस्तान्निवेशयितव्यमिति वक्ष्यते । कर्मक्रमानुरोधादित्थमिदं ज्ञातव्यम् ; यथाम्नातमेव त्वध्येतव्यमिति । तत्र 'कर्मचोदना ब्राह्मणानि । ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः । ‘ब्राह्मणशेषोर्थवादः । 'निन्दा प्रशंसा परकृतिः पुराकल्पश्च -- इति । ब्राह्मणं च द्विधा कर्मबाह्मणं कल्पब्राह्मणं चेति । तत्र कर्मब्राह्मणं यत्केवलानि कर्माणि विधत्ते मन्त्रान्विनियुड़े, न प्रशंसति न निन्दति च, यथा.' अनुमत्यै पुरोडाशम् । इत्यादि साहितिकम् । अतोऽन्यानि कल्पब्राह्मणानि, यथेदमेव 'देवासुरास्संयत्ता आसन् ते देवा विजयमुपयन्तः ' इत्यादि । आहुश्च
क्वचिद्विधिः प्रशंसा च केषु चिद्विधिरेव च।
केषु चिद्विधिरेव स्यादेवं निन्दानिषेधयोः ॥ इति ॥ तत्र परकृतयः मनुष्यकृतयः, यथा-'विश्वरूपो वै त्वाष्ट्रः । इत्यादयः । पुराकल्पाः प्रजापत्यादिकृतयः, यथा-'प्रजापतिः प्रजा असृजत' ** इत्यादयः । सर्वाण्येतानि कल्पब्राह्मणानि । अथ ब्राह्मणानुब्राह्मणानि यथा-' अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति । ये प्रत्यञ्चश्शम्यायाः । इत्यादीनि ॥ *बा. १.१.२.1
आप. परि . १-३५, ३६, ३७. सं. १-८.१.1
त-कोशे द्वितीयपादो नास्ति. बसं. २.५-१. **सं. २-१-२,
1 वा . १-६-१1.
17
For Private And Personal