________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
124
तैत्तिरीयसहिता
[का... प्र.४.
प्रभिन्दन्न् । अय५ शत्रूञ्जयतु जहषाणोयं वाजे जयतु वाजसातौ ।
अग्निनाग्निस्समिध्यते कविय॒हप॑तिपुरः । एतु । प्रभिन्दन्निति प्र-भिन्दन्न् । अयम् । शत्रून् । जयतु । जर्हषाणः । अयम् । वार्जम् । जयतु । वाजसाताविति वाज-सातौ । "अग्निना । अग्निः । समिति । इध्यते । कविः । गृहपतिरिति गृह-पतिः । युवा । हव्यवाडिति
अयं मृधस्सङ्ग्रामान् प्रभिन्दन् पुरस्तादेतु । अयं जहृषाणस्सङ्ग्रामनयन हृष्टान्तःकरणश्शत्रून् जयतु । अयं वाजमन्नं जयतु वाजसातौ वाजलाभहेतौ सङ्ग्रामे इति ॥ ___" अनयग्निवते पुरोडाशमष्टाकपालं निर्व पेद्यस्यानावनिमभ्युद्धरेयुः' इत्यस्य पुरोनुवाक्या-अग्निनाग्निरिति गायत्री ॥ अग्निनाभ्युद्धृतेनायमग्निः पूर्वोद्धृतः समिध्यते सम्यगेव इध्म उद्वायते। [सम्यगेव इध्यते] । कविर्मेधावी गृहपतिर्गृहस्य पतिस्स्वामी । युवा नित्यतरुणः, हविर्भिर्वा देवानामात्मनश्च मिश्रयिता। हव्यवाट् हविषां वोढा । ' वहश्च' इति ण्विः । जुह्वास्यः जुहूरास्यस्थानीया यस्य । सोयमेवं गुणोग्निरभ्युद्धरणदोषमुपशमयत्विति शेषः ।।
*स. २-२-४,
तिं-इध्म उध्मायते. [इध्मआयते.]
For Private And Personal