________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
122
तैत्तिरीयसंहितों
का.१. प्र.४.
मन्दे ॥ ५३ ॥ अध्वरेषु राजन्न् । त्वया.वाज वाजयन्तो जयेमाभि
ष्यांन पृत्सुतीमानाम् । त्वाम॑ग्ने वसुपतिमिति वसु-पतिम् । वसूनाम् । अभि । प्रेति । मन्दे ॥ ५३ ॥ अध्वरेषु । राजन्न् । त्वया । वाजम् । वाजयन्त इति वाज-यन्तः । जयेम । अभीति । स्याम । पृत्सुतीः । मर्त्यांनाम् ।
नैकस्य द्वयोर्वा वसुपतिं वसूनां नित्यस्वामिनम् । इदं समासव्यासाभ्यां प्रतिपाद्यते । ईदृशं त्वामभिप्रमन्दे आभिमुख्येन तर्पयामि । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । कश्चिदाह-वसूनां देवानां मध्ये वसुपतिमिति । किञ्च–वाजयन्तः वाजमन्नमात्मन इच्छन्तः । क्यचि 'न छन्दस्यपुत्रस्य' इतीत्वप्रतिषेधः । यदा वयं वाजमिच्छामस्तदा त्वया वाजं जयेम त्वयैव प्राप्नुयाम । किञ्च-मानां मध्ये प्रत्सुतीः पृतनां कर्तुं या अस्माभिरिच्छन्ति ताश्शत्रुसेना अभिष्यामाभिभवेम । 'उपसर्गप्रादुर्ध्यामस्तिर्यच्परः' इति षत्वम् । प्रदिति सङ्गामकर्म । तस्मात्सङ्गामयितुमिच्छन्तीति सन्, . छान्दसोभ्यासलोपः, विकरणव्यत्ययेन शः, वर्णव्यरायेन शतुरकारस्योकारः, 'शतुरनुमः' इति नद्या उदात्तत्वम् । यद्वा-टतनास्सूयन्ते उत्पाद्यन्ते याभिस्ताः पृत्सुतयः । छान्दसं ह्रस्वत्वं, पदावश्च । बहुविकारत्वान्नावगृह्यते । 'मन्क्तिन्व्याख्यान' इत्युत्तरपदान्तोदात्तत्वम् ॥
For Private And Personal