SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 तैत्तिरीयसंहिता का. १. प्र... "ध्रुवास "यं परिधिं पर्यधत्था अग्ने देव पणिभिर्वीयर्माणः । तं त एतमनुजोषं भराम "भूमिमभिमृशति-ध्रुवासीति ॥ ध्रुवा नित्या त्वमसि, तस्मान्मामपि ध्रुवं कुर्विति भावः ।। "मध्यमं परिधिमनुप्रहरति—यमिति त्रिष्टुभा पुरस्ताज्ज्योतिषा वसुरुद्रेशभवाक्षरपदया ॥ हे अग्ने । पादादित्वान्न निहन्यते । देव देवनादिगुणयुक्त । 'नामन्त्रिते समानाधिकरणे' इति पूर्वस्य विद्यमानवत्वात् निहन्यत एव । यं परिधि पर्यधत्थाः परिहितवानसि । 'यद्वृत्तान्नित्यम् ' इति निघाते निषिद्धे अट उदात्तत्वम् , 'तिङि चोदात्तवति ' इति गतनिघातः, उदात्तवता तिङा गतिसमासः । परिधिशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । सः पणिभिः पणिनामभिः असुरैः वीयमाणः वेष्टयमानः तेषां निवारणार्थ पर्यधत्थाः । व्यञः कर्मणि लकारः, व्यत्ययेन णकारः । वच्यादिसूत्रेण सम्प्रसारणम् । तमेतं मध्यमं परिधि तव जोषमिष्टम् । कर्मणि घञ् । अनुभरामि त्वामेवानुगतं हराभि प्रहरामि । 'हृग्रहोर्भश्छन्दसि' इति भत्वम् । युक्तमेव खल्वेवं कर्तुमित्याह-एषः अयं परिधिः एवं नाम तवाभिमतः त्वत्तो हेतोः नेदपचेतयाते नैवापरक्तचित्तो भवेत् । यद्ययं न प्रवियेत, उपेक्षितोहमनेनाग्निनेति त्वत्तोऽपचेतयेत । तस्मात्वय्येवैनमनुप्रहरामि । चित संचेतने, चुरादिः, अनुदात्तेत् , तस्माल्लेटि ‘लेटो डाटौ' इत्याडागमः, 'वैतोन्यत्र ' इत्यैत्वम् , 'निपातैर्यत् ' इत्यादिना निघातप्रतिषेधः, पूर्ववद्गतिनिघातसमासौ, णिचश्चित्वादुदात्तत्वम् ॥ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy