SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भभास्करभाष्योपेता 47 "वर्षतु ते द्यौ "बधान देव सवितः परमस्या परावर्ति शतेन पाशैर्योऽस्मान्दृष्टि यं च वयं द्विष्मस्तमतो मा मौ गप॑हतोररुः पृथिव्या अदेवयजनो "व्रजं गच्छ गोस्थानं "वर्षतु ते द्यौ "बैधान देव सवितः परमस्या परावर्ति अस्मिन्नुत्करे तं निश्चेष्टं स्थापय । कम् ?--योस्मान्द्वेष्टि यं च वयं द्विष्मस्तमस्माकं द्वेष्टारं द्वेष्यं च बधान । बद्धं तमस्मादुत्करात् मा मौक् मा मुचः । यहा—परमस्यां परावति परागतौ पराजये शतेन पाशैः अस्माकं द्वेष्टारं द्वेप्यं च बधान । बद्धं च तं, अस्मात्पराजयात् मा मौक् मा मुचः । यहा-परमस्यां परावति पराजये पराजयार्थं तस्मिन्नुत्करे बधान । बद्धं च तं मा मुचः उत्करात्पराजयाद्वा । मुटुंङि व्यत्ययेन अडं बाधित्वा च्लेस्सिनादेशः, 'बहुळं छन्दसि' इतीडभावः, हलन्तलक्षणा वृद्धिः, हल्ङ्यादिसंयोगान्तलोपौ । द्वितीये पर्याये देवयजन्या इति पृथिव्या विशेषणम् , अपहत इत्यादौ प्रथमप्रहारेण देवयागयोग्यत्वस्यापादितत्वात् । तृतीये च पर्याये अदेवयजनत्वमसुरस्य विशेषणम् , यस्मिन्वेदिदेशमनुप्रविश्य शयाने तस्यां भुवि देवयजनं नास्ति; तेन अदेवयजनोऽसुरोपहत इति । नसमासे कृते अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तृतीय एव शेषः 'अररुस्ते दिवं मास्कान्' इति । अत एवोत्करस्य योयमररुस्त्वयि बद्धः, स दिवं स्वर्ग मास्कान् मा गात् । *ख-स्याविवक्षितत्वात् . For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy