SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १४.] भाभास्करभाष्योपेता 377 वीर्यम् । दधत्पोष रयिं मयि । अग्ने पावक रोचिषा मन्द्रया देव अस्मे इति । वर्चः। सुवीर्यमिति सु-वीर्यम् । दधत्। पोषम् । रयिम् । मयि । अग्ने । पावक । रोचिो । मन्द्रयो । देव । जिह्वर्या । एति । पवस्व स्वपाः शोभनकर्मा । 'सोर्मनसी अलोमोषसी' इत्युत्तरपदाद्युदात्तत्वम् । अस्मे अस्मभ्यम् । 'सुपां सुलुक् ' इति शेआदेशः । वर्चः बलं, · सुवीर्य शोभनवीर्ययुक्तं पवस्व शोधय वर्धय । 'वीरवीर्यों च ' इत्युत्तरपदाद्युदात्तत्वम् । अग्ने इत्यस्याविद्यमानत्वात् पवस्वेति न निहन्यते । किं कुर्वन्नित्याहपोषं पुष्टिं रयिं धनं च मयि दधत् धारयन् स्थापयन् वर्षों मे धेहीति । 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । 'यदग्नये पवमानाय निर्वपति पुनात्येवैनम् '* इति ब्राह्मणम् ॥... ___ अग्नये पावकायेत्यस्य पुरोनुवाक्या-अग्ने पावकेति गायत्री ॥ हे अग्रे पावक शोधक । 'नामन्त्रिते समानाधिकरणे' इति पूर्वस्याविद्यमानवत्त्वनिषेधात्परमामन्त्रितं निहन्यते । रोचिषा रोचनशीलया मन्द्रया श्लक्ष्णया मदनशीलया वा हे देव जिह्वया त्वदीयया वाचा वा देवानावक्षि आवह आह्वय यक्षि च यज च । उभयत्रापि लेटि 'बहुलं छन्दसि' इति शपो लुक् , तिङः परत्वाद्यक्षीति न निहन्यते, 'चादिषु च ' इति द्वितीया तिढिभक्तिर्न निहन्यते । इष्वा च देवान्यजमानस्य अभिमतं रसं *सं.-२-२-४. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy