SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाभास्करभाष्योपेता 361 अनु. १४.] ष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्यग्निरेनुयाति भवन् । आर्युष्टे नानदत्-भिः । यविष्ठः । यः। पावकः । पुरुतम इति पुरु-तमः । पुरूणि । पृथूनि । अग्निः । अनुयातीत्यनु-याति । भवन् । "आयुः। ते । हविषाराध्यत इत्यर्थः, तस्मादयमस्मच्छन्विनाशयत्विति भावः । अधुना तस्यैव हवींषि भुञानस्य गुणानाह-श्वितानः दीप्यमानः । श्विता वर्णे अनुदात्तेत् , ताच्छीलिकश्चानश् , लसार्वधातुकानुदात्तत्वाभावात् 'चितः' इत्यन्तोदात्तत्वम् , 'बहुलं छन्दसि' इति शपो लुक् । तन्यतुः तनिता विस्तारयिता सिद्धीनां दीप्तीनां वा । 'ऋतन्यश्चि' इत्यादिना तनोतेर्यतुच्प्रत्ययः । रोचनस्थाः रोचनेषु दीप्तिमत्स्थानेषु स्थितः । 'अनुदात्तेतश्च हलादेः' इति रोचतेर्युच्प्रत्ययः । रोचनेषु तिष्ठतीति वा तिष्ठतेः क्विप् , कदुत्तरपदप्रकृतिस्वरत्वम् । अनरेभिर्जरारहितैः अक्षीणैः । ' नोजरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम्, 'बहुलं छन्दसि' इत्यैसभावः । नानदद्भिरत्यर्थ नदद्भिः स्तुवद्भिः ऋत्विग्भिः यजमानगणैर्वा परिवृतः । यङ्डगन्ताच्छतरि 'अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । यविष्ठः युवतमः सोयमेवंविधोस्मदीयेन हविषा तृप्तोस्मच्छन्विनाशयत्विति शेषः ॥ 11 अनय आयुष्मते पुरोडाशमष्टाकपालं निर्व पेद्यः कामयेत सर्वमायुरियाम् '* इत्यस्य पुरोनुवाक्या-आयुष्ट इत्यनुष्टुप् ॥ *सं. २-२.३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy