SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. ५.] भट्टभास्करभाष्योपेता 27 'देवो वस्सवितोत्नावच्छिद्रेण पवित्रेण वसोस्सूर्यस्य रश्मिभि रापो देवीरग्रेपुवो अप उत्पुनाति–देवो व इति गायत्रया । 'सावित्रियर्चा '* इति ब्राह्मणम् । हे आपः देवस्सविता सर्वस्य प्रेरकः, वः युष्मान् उत्पुनातु उर्ध्व शोधयतु । अच्छिद्रेण पवित्रेण जगतां पावनेन आदित्यात्मनानेन छिन्नं छिद्रमतोन्यदच्छिद्रं अविच्छेदेन वर्तमानं । अव्ययपूर्वपदप्रकृतिस्वरत्वं । 'पुवस्संज्ञायाम् ' इति पुनातेरित्रप्रत्ययः । 'असौ वा आदित्योच्छिद्रं पवित्रम् '* इत्यादि ब्राह्मणम् । वसोर्जगतां वासहेतोः सूर्यस्य मण्डलात्मनो रश्मिभिः जगतां शुद्धिहेतुभिः उत्पुनातु । वसेः करणे उप्रत्ययः, स च निदवे । ' यद्दभैरैंप उत्पुनाति' 'द्वाभ्यामुत्पुनाति ' * इति प्राप्तयोर्दर्भयो। रादित्यात्मना मण्डलरश्मितया च स्तुतिः ॥ __ "उन्महयन्नुपोत्तिष्ठति-आप इति ॥ हे आपः । आमन्त्रिताधुदातत्वम् । उत्तरेषामामन्त्रितानामाष्टमिकं सर्वानुदात्तत्वम्, 'विभाषितं विशेषवचने बहुवचनम् ' इति पूर्वस्य विद्यमानत्वात् । हे देवीः देवनगुणयुक्ताः । ‘वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । हे अग्रेपुवः भस्मादेश्शुद्धिकारणात् प्रथममेव वस्तूनां शोधिकाः । क्विपि ' तत्पुरुषे कृति बहुळं ' इत्यलुक् । हे अग्रेगुवः प्रथमं स्नानकाल एव यागसाधनत्वं गच्छन्त्यः । 'उङ् च गमादीनामिति वक्तव्यम्' इति क्वौ अनुनासिकलोपः ऊकारश्च । ईदृश्यो यूयमिमं प्रस्तुतं यज्ञमग्रे नयत यज्ञानामग्रं प्रापयत । यज्ञपति यजमानं *बा.३-२-५. ख-इति हस्तयोरुभयो. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy