________________
Shri Mahavir Jain Aradhana Kendra
310
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीय संहिता
स्त्वौष॑धीभ्यः॒ प्रोक्षम्य॒पां पेरुर॑सि स्वात्तञ्चि॒त्सदे॑व ह॒व्यमापों देवी
इत्योष॑धि - । प्रेति॑ । उ॒क्षामि॒ । अ॒पाम् । पेरुः । अ॒सि॒ । `स्वात्तम् । चि॒त् । सदे॑व॒मिति॒ स -
[का. १. प्र. ३
"पाययति-अप पेरुरसीति ॥ हे पशो अपां पेरुः पातासि त्वं ततः इमाः पिबेति गम्यते । यद्वा-असीति पञ्चमो लकारः, अपां पाता भव । पूर्ववदद्योविभक्तेरुदात्तत्वम् । पा पाने, ' मापो रुरिच्च' इति पिबतेरुप्रत्ययः इकारश्च पेरुः । ' एष पां पाता * इत्यादि ब्राह्मणम् । पानेन चान्तश्शुद्धिः क्रियते ' पाययत्यन्तरत एवैनम्मेध्यं करोति '* इति च ब्राह्मणम् ॥
*सं, ६-३-६०
'अधस्तादुपोक्षति - स्वात्तमिति द्विपदया गायत्र्या ॥ स्वात्तमास्वाद्यमानं स्वादुभूतमित्यर्थः । स्वाद आस्वादने । ' आदितश्च ' इति चकारस्यानुक्तसमुच्चयार्थत्वादाश्वस्तादिवदिडभावः । चिदित्यप्यर्थे, एवार्थे वा पूर्वमेव स्वानुं सन्तमेनं हव्यं पशुं स्वदत आस्वादयत स्वादुतमं कुरुत । ष्वद स्वर्द आस्वादने अनुदात्तेत्, तस्मात् ण्यन्तालोटि ' बहुलं संज्ञाच्छन्दसोः' इति लुक् ।' अणावकर्मकात्' इति परस्मैपदम् स्वदमानस्य पशोश्चित्तवत्त्वात् । " स्वदयत्येवैनम् ' * इति च ब्राह्मणम् । हे आपो देवीः देव्यः । वा छन्दसि' इति पूर्वसवर्णदीर्घत्वम् । अत्र आप इति पादादित्वान्न निहन्यते,
'
षाष्टिकमामन्त्रिताद्युदात्तत्वं प्रवर्तते ।
For Private And Personal Use Only