SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भट्टभास्करभाष्योपेता 295 म्पृण पृथिवीमुर्परेण दृह ते ते धामान्युश्मसि ॥ १० ॥ गमध्ये गावो यत्र भूरिशृङ्गा अयासः। पृण । पृथिवीम् । उपरेण । दृ५ । "ते । ते । धामानि । उश्मसि ॥ १० ॥ गमध्ये । गावः। यत्र । भूरिशृङ्गा इति भूरि-शृङ्गाः । अयासः । "यूपं वैष्णवीभ्यामृग्भ्यां कल्पयति स्थापयति-ते ते धामानि ........विष्णोः कर्माणि पश्यतेति ॥ तत्र प्रथमा चतुष्पदा त्रिष्टुप् । द्वितीया त्रिपदा गायत्री । 'वैष्णव्यर्चा कल्पयति वैष्णवो वै देवतया '* इत्यादि ब्राह्मणम् । 'द्वाभ्यां कल्पयति '* इत्यादि च । वैष्णवत्वाद्यूपो विष्णुरूपेण स्तूयते । त इति द्वितीयावहुवचनस्य ‘सुपां सुलुक्' इति शे आदेशः, प्रगृह्यत्वाभावो व्यत्ययेन, लिङ्गविभक्तिव्यत्ययेन वा । हे विष्णो तव तानि धामानि स्थानानि गमध्ये गन्तुं यजमानो गच्छेदिति यावत् । तुमर्थे अध्येन्प्रत्ययः, अध्यैप्रत्ययस्य वा वर्णव्यत्ययेन एकारः । तव तानि धामानि गन्तुं उश्मसि उश्मः कामयामहे । वष्टहिज्यादिना सम्प्रसारणम् , 'इदन्तो मसिः ', 'अन्येषामपि दृश्यते ' इति तस्य संहितायां दीर्घः । कानीत्याह-यत्र येषु धामसु गावो रश्मयः भूरिशृङ्गाः. बह्वयाः, अयासः गमनशीलाः । एतेः पचाद्यच् , 'आजसेर नुक्' । यत्र बहुमुखा *सं. ६.३.४, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy