SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भभास्करभाष्योपैता 21 'कर्मणे वां देवेभ्यश्शकेयं वेर्षाय त्वा प्रत्यु४५ रक्षः प्रत्युष्टा अरांतयो 'धूरसि धूर्व धूर्वन्तं धूर्वतं योऽस्मान् धूर्वति तं वयं वयं धूर्वीमस्त्वं 'यागदिवसे कर्मारम्भे हस्तौ सम्मृशति*-कर्मणे वामिति ॥ देवेभ्य इति षष्ठयर्थे चतुर्थी । हे हस्तौ देवानां सम्बन्धिने कर्मणे तत्सिद्धची वां युवयोः शकेयं युवां विनियोक्तुं समर्थों भूयासम् । 'लिङचाशिष्यङ्' इत्यङ्प्रत्ययः । 'छन्दस्युभयथा' इति सार्वधातुकत्वात्सलोपः ॥ 'शूर्पमादत्ते—वेषाय त्वेति ॥ वेषः विष्णुर्यज्ञ इति पर्यायाः । पचाद्यजन्तः । वृषादित्वादाद्युदात्तत्वम् । सर्वव्यापिने विष्ण्वात्मने यज्ञाय त्वामादद इति शेषः ॥ प्रत्युष्टमिति प्रतितपनमन्त्रो व्याख्यातः ॥ 'धुरमभिमृशति-धूरिति ॥ धूरस्थोग्निरुच्यते । धूहिंसकः त्वमसि युगप्रदेशस्य धूर्भूत्वा स्थितस्त्वं । हे अग्ने धुर्य 'एष वै धुर्योग्निः, इति ब्राह्मणम् । धुर्वी हिंसायां, कर्तरि विप् , राल्लोपः, उपधादीर्घः । यत ईदृशस्त्वं तस्माद्दूर्वन्तं यज्ञस्य हिंसकं राक्षसादिकं तावडूर्व नाशय । किञ्च, तं च धूर्व योस्मान् धूर्वति जिघांसति । अपि च, तमपि धूर्व यं वयं धूर्वामः जिघांसामः । सर्वत्र 'उपधायाश्च ' इति दीर्घत्वम् ॥ "अनोभिमन्त्रयते-त्वमिति ॥ हे शकट त्वं देवानां असि देवसंबन्ध्यसि, देवतार्थ हविर्धारणेन । अत एव सस्नितमं शुद्ध*ग-हस्ताववमृशति.. ख.ग-कर्मसिद्धयर्थम्. सं. १-१-२०. बा. ३.२.४, For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy