SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता 261 खेनामीदमहं तं वलगमुपामि यनस्समानो यमसमानो निचखावलग-हनः। वैष्णवान् । खनामि । इदम् । अहम् । तम् । वलगमिति वल-गम् । उदिति । वपामि । यम्। नः । समानः। यम् । असमानः। णत्वम् । 'सर्वे विधयश्छन्दसि विकल्प्यन्ते' इत्युपधालोपो न क्रियते । कृदुत्तरपदप्रकृतिस्वरत्वम् । वलो नामासुरमुख्यः, तद्गामिनस्तद्धृत्या वलगाः । यद्वा-वृणोतीति वलो मेघः । कालकादित्वाल्लत्वम् । स इव छादयन्तो ये गच्छन्ति ते वलगाः असुरविशेषाः । यद्वा-जीर्णकटपटादिखण्डसम्भृताः अस्थिनखरोम पादपांसुप्रभृतयः प्राणिनां मारणार्थ ये भूनौ निखन्यन्ते ते वलगाः । ते हि प्राणिनां बाधकतया वलगामिनो वलवल्लल्या भवन्ति । 'अन्यत्रापि दृश्यते' इति गमेर्डः । तेषां हन्तारी वलगहनः । ईदृशान्विष्णुदेवत्यानुपरवान् खनामि । 'वैष्णवा हि देवतयोपरवाः '* इति ब्राह्मणम् । देवानां नासिकादिप्राणस्थानीया उपरवाः । 'शिरो वा एतद्यज्ञस्य यद्धविनं प्राणा उपरवाः '* इति ब्राह्मणम् । ते च खन्यमाना रक्षांसि पलगांश्च निघ्नन्तीति । 'असुरा वै निर्यन्तः '* इति ब्राह्मणम् ॥ "पांसू नुहपति-इदमहमिति ॥ इंदमिति क्रियाविशेषणम् । तं वलगमहमिदमुद्रपामि उद्धृत्य बहिः प्रक्षिपामि । कमित्याहनः अस्माकं समानस्तुल्यः यं वलगं निचखान । 'तिङि चोदात्तवति' *सं. ६-२-११ *36 अस्माकं समायामि उद्धृत्य बाण इदमिति कि For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy