SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 तैत्तिरीयसंहिता का. १. प्र. २. यज्ञियं तेन त्वा दधे सिर हीरसि महिषीरस्युरु प्रथस्वोरु ते यज्ञपएति । दधे । “सि हीः । असि । महिषीः । असि । "उरु । प्रथस्व । उरु । ते । यज्ञपतिरिति 'विदेरग्निर्नभोलाकः प्रथु हरति '* इति रग्निर्नभो नामेत्यादिकं सर्वत्रानुवर्तते । अयं तु विशेषः, द्वितीयपर्या ये 'अग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामसि' इति भवति । द्वितीया पृथिवी अन्तरिक्षम् । तृतीये तु, ‘अग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामसि' इति । तृतीया पृथिवी द्युलोकः पृथुत्वात्प्टथिवी । समानमन्यत् । 'विदेरग्निर्नभी नामांने अङ्गिर इति त्रिर्हरति '* इति ब्राह्मणम् ॥ ___"पुरीषं सम्प्रयौति-सिंहीरिति ॥ हे उत्तरवेदे सिंहीरसि सहनात्सिही शत्रूणामभिभवित्रीति । हिनस्तेर्वाद्यन्तविपर्ययः । सिंहीरूपं कृत्वा वा सिंही । ब्राह्मणं च भवति-' तेभ्य उत्तस्वेदिस्सिहीरूपं कृत्वा '* इत्यादि । व्यत्ययेन 'हल्याभ्यः' इति सुलोपो न प्रवर्तते । किञ्च-महिषीरसि महती महनीया वा । 'अविमह्योष्टिषच्' । महति वा यागे सीदतीति महिषी । पृषोदरादिः, पूर्ववत्सुलोपाभावः । यस्मादीदृशी त्वमसि, तस्मात्रिलोकाग्निभिः पुरीषरूपैस्त्वां सम्प्रयौमीति ॥ "प्रथयति-उर्विति ॥ व्याख्यातम् ॥ *सं-६-२-७. क-सुलोपः. खि-यन्तविपर्यात् सिंहीरूपत्वात्. सं.१-१.८७ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy