SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 तैत्तिरीयसंहिता [का. १. प्र.. "सुसंभृतां त्वा संभरा म्यदित्यै रास्नाऽ सीन्द्राण्यै सन्नहनं "पूषा ते ग्रन्थि ग्रंभातु “स ते मास्था "सम्भरति-सुसंभृतेति ॥ सुष्टु सम्भ्रियतेऽनयेति* सुसंभृत् । पूर्ववक्विप् । तादृश्या रज्जा त्वा त्वां सम्भरामि इतरमुष्टिभिस्सह भरामि । भृञ् भरणे, भौवादिकः ॥ _रास्नां करोति-अदित्या इति ॥ षष्ठ्यर्थे चतुर्थी, कर्मणि क्तिन् । अखण्डनीया पृथिवी अदितिः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रास्ना शुल्वं अदित्याः रास्ना त्वमसि, यामदितिरकरोदिति स्तुतिः । सामर्थ्याच्चायं मन्त्रस्सम्भरणमन्त्रात्यूर्वो द्रष्टव्यः ॥ सन्नाति–इन्द्राण्या इति ॥ सैव चतुर्थी । इन्द्रस्य पत्न्यास्सन्नहनं संयमनमसीति स्तुतिः । 'इन्द्राणी वा अग्रे देवतानाँ समनह्यत + इति ब्राह्मणम् । 'प्रथमे उदात्तयणः ' इति विभक्तेरुदा तत्वम् । द्वितीये कदुत्तरपदप्रकृतिस्वरेण 'लिति । प्रत्ययात्पूर्वमुदात्तत्वम् । सन्नहनं च शुल्बान्तयो संश्लेषणम् ; ग्रन्थिकरणस्य विधास्यमानत्वात् ॥ "ग्रन्थि करोति-पूषेति ॥ पूषा आदित्यस्स ते तव ग्रन्थि ग्रथनातु करोतु । सामान्यग्रन्थेः विशेषग्रन्थिः कर्म ॥ "शुल्वान्तमुपगृहति—स ते इति ॥ सः ते तव ग्रन्थिः मा स्थात् , मा प्रदेशान्तरमातिउतु यावद्विमोकं शिथिलो मा भूत् । 'गातिस्था' इति सिचोलुक् ।। *व-अनेनेति वा [इत्यधिकः पाठः]. बा-३-२-२. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy