SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 . तैत्तिरीयसंहिता [का. १. प्र. २. सुवः । प्रजाभ्यस्वा प्राणाय त्वा व्यानार्य त्वा प्र॒जास्त्वमनु प्राणि हि प्र॒जास्त्वामनु प्राणन्तु ॥१३॥ क्रतुरिति सु-क्रतुः । कृपा । सुवः । 'प्रजाभ्य इति प्र-जाभ्यः । त्वा । प्राणायोत प्र-अनार्य । त्वा । 'व्यानायेति वि-अनार्य । त्वा । 'प्रजा इति प्र-जाः । त्वम् । अनु । प्रेति । अनिहि । प्रजा इति प्र-जाः। त्वाम् । अनु।प्रेति । अनन्तु ॥१३॥ अनु सप्त च ॥६॥ अवशिष्टं सोमं मितेनोपसमूहति-प्रनाभ्य इति ॥ प्रजानां सदस्याना*मर्थाय त्वामवशिष्टं उपसमूहामि मितं प्रापयामि । 'यद्वै तावानेव सोमस्स्यात् । इत्यादि ब्राह्मणम् ॥ 'उष्णीषेणोपसन्नाति-प्राणायेति ॥ प्राणार्थं त्वां सोममुपनह्यामीति । 'प्राणमेव पशुषु दधाति । इति ब्राह्मणम् ॥ 'बन्धनं शिथिलीकरोति-व्यानायेति ॥ व्यानार्थं त्वामनुशन्थामीति । 'व्यानमेव पशुषु दधाति । इति ब्राह्मणम् ॥ "यजमानमवेक्षयति सोमं-प्रजा इति ॥ हे सोम प्रजा अनु त्वं प्राणिहि प्रनार्थ जीवेत्यर्थः । प्रनाश्च त्वां प्राणन्तमनु प्राणन्तु त्वयि प्राणति ताः प्राणन्तीति ॥ इति द्वितीये षष्ठोनुवाकः. *ख-ग-समर्थाना. सिं.६-१.९. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy