SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 166 www. kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailassagarsuri Gyanmandir राय॒स्तोते॒ राय॒स्सन्दे॑व दे॒व्यो 12 रायः । " वे इति । रार्यः । " तोते । रार्यः । समिति॑ । दे॒व । दे॒व्या । उ॒र्वश्या॑ । प॒श्य॒स्व॒ । 13 [का. १. प्र. २. "यजमानाय प्रयच्छति त्वे इति ॥ त्वे तव । ' त्वमावेकवचने ' इति त्वादेशः, पूर्ववत्सप्तम्येकवचनस्य शेआदेशः । हे यजमान त्वयि च रायस्सन्तु ॥ "यजमानः पत्न्यै प्रयच्छति तोत इति ॥ ऊतं रक्षितम् । अवतेर्निष्ठायां ज्वरत्वरादिना ऊठादेशः । त्वया ऊतं तोतम् । त्वदूतमिति वक्तव्ये व्यञ्जनद्वयं लुप्यते, एषोदरादित्वाद्रूपसिद्धिः, ' तृतीया कर्माणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । हे पत्नित्वया रक्षिते च गृहे रायस्सन्तु । ' अर्धो वा एष आत्मनः ' * इत्यादि ब्राह्मणम् । आहु ' तत्सा गृहेषु निदधाति' इति ॥ *सं. ६-१.८. पत्ती सोमक्रयण्या समीक्षयति — संदेवीति ॥ उरूणि महान्ति श्रेयांसि अद्भुते व्यामोतीत्युर्वशी । अश्नोतेः कर्मण्यण, 'संज्ञापूर्वको विधिरनित्यः' इत्युपधाया वृद्धिर्न क्रियते, वर्णव्यत्ययेन वा ह्रस्वत्वम् 'परादिश्छन्दसि बहुळम् ' इत्युत्तरपदाद्युदात्तत्वम् । देव्या द्योतनवत्या त्वया दृश्यमानया हे देवि सोमक्रयणि सम्पश्यस्व सम्यग्दर्शनवती भव, यथेयमुरूणि श्रेयांस्यभुते तथा पश्येति भावः । ' दृशेश्चेति वक्तव्यम् ' इत्यात्मनेपदम् । — उदात्तयणो हल्पूर्वात् ' इति देव्याः परस्यास्तृतीयाया उदात्तत्वम् ॥ " For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy