SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भभास्करभाष्योपेता 155 सम्भव भ्राज॑ङ्गच्छ जूरसि धृता मनसा जुष्टा विष्णवे तस्यास्ते सत्यसवसः प्रसवे वाचो यन्त्रमतया । समिति । भव । भ्राज॑म् । गच्छ । जूः । असि । धृता । मनसा । जुष्टा । विष्णवे । तस्याः। ते । सत्यसंवस इति सत्य-सवसः । प्रसव इति प्र-सवे । वाचः । यन्त्रम् । अशीय । स्वाहा । तदाज्यमाहवनीये जुहोति-जूरसीति ॥ जूरिति सोमक्रयण्युच्यते । तस्याश्च वायूपत्वात् तद्रूपेण वर्ण्य ते, यथा 'ते वाचं स्त्रियमेकहायनी कृत्वा '* इत्यादि । 'वाग्वा एषा यत्सोमक्रयणी' इत्यादि ब्राह्मणम् । सोमक्रयणि वाग्रूपे नूरासि प्रत्यर्थ गन्त्र्यसि । जवतेर्गतिकर्मणः 'क्विब्वचि प्रच्छि' इत्यादिना क्विन्दी? । 'यद्धि मनसा जवते तहाचा वदति । इति ब्राह्मणम् । मनसो यत्र जवः वागपि तत्र जवं करोतीत्यर्थः । कीदृशी पुनरसौ ? आह-धृता मनसा त्वमसि, मनःपूर्वकत्वात् । 'मनसा हि वाग्धृता ', इत्यादि । जुष्टा सेवितास्माभिः विष्णवे व्यापनाय: । यज्ञाय प्रिया वासि 'यज्ञो वै विष्णुर्यज्ञायवैनां जुष्टां करोति' इत्यादि । तस्यास्तादृश्यास्तव वायूपाया एकहायनीभावमापन्नाया यन्त्रं यमनं स्थितिं अशीय प्राप्नुयाम् । अश्नोतलिटि — बहुळं छन्दसि ' इति शपो लुक् । 'गुधृवचि' *सं. ६-१-६. सं. ६-१-७. क-वृत्त्यर्थम्. व. व्यापका. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy