________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
124
तैत्तिरीयसंहिता
[का. १. प्र. २.
च्छिद्रेण पवित्रैण वसोस्सूर्यस्य रश्मिभिस्तस्य॑ ते पवित्रपते पवि
त्रैण यस्मै के पुने तच्छकेयमा पवित्रण । वसौः। सूर्यस्य । रश्मिभिरिति रश्मिभिः । तस्य । ते । पवित्रपत इति पवित्र-पते। पवित्रैण । यस्मै । कम् । पुने । तत् । शकेयम् । चित्पतिः '* इति ब्राह्मणम् । स त्वां पुनातु मानसा दोषा यथा न स्युस्तथा करोतु । किञ्च-वाचः शब्दस्य पतिरुत्पादकः वाक्पतिर्वागिन्द्रियमुच्यते, मनसोनन्तरं यस्य प्रवृत्तिः । 'यद्धि मनसा ध्यायति तद्वाचा वदति + इति ब्राह्मणम् । स च त्वां पुनातु वाचिकेभ्यो दोषेभ्यो निवृत्ति करोतु । 'वाचैवैनं पवयति '* इति ब्राह्मणम् । अत्र 'न भूवाकिदिधिषु ' इत्युत्तरपदलक्षणे पूर्वपदप्रकृतिस्वरे निषिद्धे ‘परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । किञ्च-देवस्सविता सर्वस्य प्रेरकः मनःप्रभृतेश्च प्रेरकः, स च त्वां पुनातु । अच्छिद्रेणेति व्याख्यातं 'देवो वस्सवितोत्पुनातु ' इत्यत्र । 'इन्द्रो वृत्रमहन् सोपोभ्यनियत '* इति ब्राह्मणम् ॥ ___यनमानं वाचयति, स च ब्रूते-तस्य त इति ॥ हे पवित्रपते, अच्छिद्रपवित्रात्मका आदित्यस्य रश्मय इत्युक्ताः, तेषां पते, तस्य जगत्पालयितृत्वगुणविशिष्टस्य पवित्रेण रश्मिलक्षणेन यस्मै प्रयोजनाय कमात्मानमहं पुने शोधयामि । ___ *सं. ६-१-१. सं. ६-१-७.
सं. १-१.५
For Private And Personal Use Only