________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कलासवर्णव्यवहारः.
कोऽप्यशस्वार्धषड्भागपञ्चमाष्टमसप्तमैः । विहीनो 'जायते षष्ठस्स कोऽशो गणितार्थवित् ॥ १३४ ॥ शेषेष्टस्थानाव्यक्तभागानयनसूत्रम्... लब्धात्कल्पितभागासवर्णितैयक्तराशिभिर्भक्ताः । रूपात्प्टथगपनीतास्वेष्टपदेष्वविदितांशास्स्युः ॥ १३५ ॥
इति भागापवाहजातिः। भागानुबन्धभागापवाहनात्योस्सर्वाव्यक्तभागानयनसूत्रम्-- त्यक्त्वैकं खेष्टांशान् प्रकल्पयेदविदितेषु सर्वेषु । ऐतैस्तं पुनरंशं प्रागुक्तैरानयेत्सूत्रैः ।। १३६ ॥
अत्रोद्देशकः । कश्चिदशोऽशकैः कैश्चित्पञ्चभिस्स्वैर्युतो दलम् । वियुक्तो वा भवेत्पादस्तानंशान् कथय प्रिय ॥ १३७ ।। भागमातृजातौ सूत्रम्-- भागादिमजातीनां स्वस्वविधिर्भागमातृजातौ स्यात् । सा षदिशतिभेदा रूपं छेदोऽच्छिदो राशेः ॥ १३८ ॥
अत्रोद्देशकः। ध्यंशः पादोऽर्धार्घ पञ्चमषष्ठस्त्रिपादह तमेकम् । . पश्चार्धहतं रूपं सषष्ठमेकं सपञ्चमं रूपम् ।। १३९ ॥ स्वीयतृतीययुग्दलमतो निजषष्ठयुतो द्विसप्तमो हीननवांशमेकमपनीतदशांशकरूपमष्टमः ।
'P, K and B तद्युति: for जायते.
For Private and Personal Use Only