________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणितसारसङ्ग्रहः
भिन्नभागहारः। भिन्नभागहारे करणसूत्रं यथा -
अंशीकृत्यच्छेदं प्रमाणराशेस्ततः क्रिया गुणवत् । प्रमितफलेऽन्यहरने विच्छिदि वा सकलवच्च भागहतौ ॥ ८ ॥
अत्रोद्देशकः। हिङ्गोः पलार्धमौल्यं पणत्रिपादांशको अवेद्यत्र । तत्रार्धे विक्रीणन् पलमेकं किं नरो लभते ।। ९ ॥ अगरोः पलाष्टमेन त्रिगुणेन पणस्य विंशतिव्यंशान् । उपलभते यत्र पुमानेकेन पलेन किं तत्र ॥ १० ॥ पणपञ्चमैश्चतुभिर्नरवस्य पलसप्तमो व्यशीतिगुणः । संप्राप्यो यत्र स्यादेकेन पणेन किं तत्र ॥ ११ ॥ ध्यादिरूपपरिरद्धियुजोऽशा यावदष्टपदमेकविहीनाः । हारकास्तत इह द्वितयाद्यैः किं फलं वद परेषु हतेषु ॥ १२ ॥
___ इति भिन्नभागहारः ।
भिन्नवर्गवर्गमूलघनघनमूलानि ॥ 'भिन्नवर्गवर्गमूलघनघनमूलेषु करणसूत्रं यथा
कृत्वाच्छेदांशकयोः कतिकतिमूले घनं च घनमूलम् । तच्छेदैरेंशहतौ वर्गादिफलं भवेद्भिन्ने ॥ १३ ॥
1M भिन्नवर्गभिनवर्गमूलभिन्नघनतन्मलेषु.
For Private and Personal Use Only